________________ वादमाला [2] [109, शेषापत्तेः, एतेन लब्धवृत्तिकत्वमपि निरस्तम् / तस्यापि सहकारिविशिष्टत्वकालविशेषविशिष्टत्वरूपविकल्पद्वयानतिक्रमात् , न च तददृष्टजन्यफले तददृष्टप्राग्वय॑दृष्टत्वावच्छिन्नाभावस्य हेतुत्वादनतिप्रसङ्ग इति वाच्यम् / एकभवेऽपि दानहिंसादिजन्यानां वहूनामदृष्टानामर्जना द्वस्तुतः सयोगजीवव्यापारत्वेनैव कर्मबन्धत्वावच्छिन्नहेतुत्वात् सयोगिजीवव्यापारक्षणत्वस्य कर्मबन्धव्याप्यत्वात्तददृष्टप्राग्वर्त्यदृष्टाभावस्य क्वाऽप्यसिद्धेः / फलावच्छिन्नप्राग्वर्त्यदृष्टाभावस्य हेतुत्वे न दोष इति चेत् , न, ऐहिकादृष्टभोगकालेऽप्यत्युग्रपुण्यपापफलदर्शनादायुः शरीरसुखदुःखलाभालाभकामक्रोधादितारतम्यनियामकनानादृष्टानां युगपत् फलदर्शनेन तेषां मिथोsविरोधाच्च, तथापि मनुष्यस्वर्गसुखादिजनकादृष्टानां विरोधित्वान्मनुजादृष्ट सत्त्वे न स्वर्गापत्तिरिति चेत् , न, अदृष्टस्य गुणरूपत्वे बन्धोदयादिविरोधोतरादिभेदस्याप्यनुपपत्तेः / प्रकृतिरसांदिभेदेन तद्व्यवस्थानात् / किश्च स्वर्गादिजनकादृष्टस्य फलनाश्यत्वे प्रथमफ ठलाभानन्तरमेव तद्विलयापत्तिः अन्यथा च तदनन्तत्वापत्तिः, न च प्रतियोगितयाऽदृष्टनाशे जनकतया चरमफलस्य नाशहेतुत्वादयमदोषश्चरमत्वस्य जातित्वे तदवच्छिन्ननियामकस्य गवेषणीयत्वापत्तेः; फलान्तरप्रागभावसमानाधिकरणत्वरूपत्वे च प्रागभावस्य विशिष्याहेतुत्वे तेन तदनन्तत्वापत्त्यवारणात् , तत्त्वे च तत एवानतिप्रसङ्गे फलस्यादृष्टनाशकत्वे मानाभावाददृष्टानन्तत्वापत्ते:तस्माद् योगानुभावोपात्तविचित्रप्रकृतिप्रदेश कषायाध्यवसायविशेषोपनीतविचित्रस्थित्यनुभावं च कर्म पुद्गलरूपमेव प्रतिपत्तव्यमत एव कर्मणः प्रकृत्यात्मकत्वे मोदकदृष्टान्तं वर्णयन्ति समयविदः / - अथ चैत्रशरोरं चैत्रविशेषगुणपूर्वकं चैत्रभोग्यत्वाच्चन्दनादिवदित्यनुमानाददृष्टस्य गुणत्वसिद्धिरिति चेत् , न, चैत्रभोग्यत्वे मैत्रविशेषगुणपूर्वकत्वस्येव चैत्रविशेषगुणपूर्वकत्वस्यापि व्याप्तौ प्रमाणाभावात् , अदृष्टद्वारकजन्मान्तरीयप्रयत्नेनार्थान्तरप्रसङ्गाच्च, चैत्रभोंग्यत्वावच्छिन्ने चैत्रविशेषणत्वेन साक्षाद्धेतुत्वं चासिद्धमिति दिग् / किं चादृष्टस्य गुणत्वे तदप्रत्यक्षत्वाय मानसलौकिकप्रत्यक्षं प्रति तस्य तादात्म्येन प्रतिबन्धकत्वं कल्पनीयमिति तव मते गौरम् / न चायोग्यत्वादेव तदप्रत्यक्षत्वमिति न तत्कल्पनम् अयोग्यत्वस्य प्रतिबन्धकत्वे विश्रामात् , न च गुणलौकिकमानसत्वावच्छिन्नं प्रति जनकतावच्छेदकतया ज्ञानेच्छादिगतजातिविशेषस्यैव कल्पनान्न तत्कल्पनमिति वाच्यम् / निर्विकल्पादिगतज्ञानत्वादिना सांकर्यात् / ___तथा सुखदुःखादिवैचित्र्यनियामकस्याहारानलादिवद्धर्मिग्राहकप्रमाणादेव पुद्गलरूपत्वं सिद्धयति / आत्मतद्धर्मव्यतिरिक्तत्वे सति बाह्यकारणाधीयमानोपचयत्वात् परिणामित्वाच्च स्नेहाद्याहितबलघटवत् क्षीरादिवच्च पुद्गलरूपत्वमेवादृष्टस्येत्यप्याहुः / परिणामित्वं च कर्मणः कर्मपरिमाणावच्छिन्नावगाहनाया नियतशरीरोपदानावच्छेदकत्वेन सिद्धयति / अत एवाद्यबालशरीरम्