________________ 11] वादमाला [2] शरीरान्तरपूर्वकं शरीरत्वादिन्द्रियादिमत्वाद्वा युव शरीदरवदित्यनुमानादपि शरीररूपस्य कर्मणः सिद्धेस्तस्य पौद्गलिकत्वम् / न च जन्मान्तरीयशरीरेणार्थान्तरं, परिणामिशरीरान्तरपूर्वकत्वस्य साध्य. त्वात् / परिणामिनश्च व्यधानायो[गा]दत एवौदारिकादिशरीरपरिणामिनः कर्मण औपश्लेषिकमुपादानत्वं गीयते / / अथ शरीरत्वं न शरीरान्तरपूर्वकत्वव्याप्यमनवस्थाप्रसङ्गादिति चेत् , न, बीजाङ्करस्थानीयाया एतस्या अनवस्थाया अदोषत्वात् / न च वृद्धिमच्छरीरत्वस्योपाधेः सत्त्वादुक्तव्याप्त्यसिद्धिरिति शङ्कनीयम् / प्रत्यात्मकर्मशरीरयोर्बीजांकुरन्यायेन हेतुत्ववादेऽवस्थितस्यैव परिमाणभेदरूपाया वृद्धः पक्षेऽपि सत्त्वेन तस्य साधनव्यापकत्वात् / अथ स्वभाव एवाभ्रादिविकारवछरीरादिवैचित्र्यनियामकोऽस्तु किमदृष्टकल्पनेनेति चेत् , स किं वस्तुविशेषो वाऽकारणता[वा वस्तुधर्मोवा ? / आये तस्य मूतत्वे नामान्तरेण कर्मण एवाभ्युपगमप्रसङ्गः, अमूर्तत्वे चाकाशादिवत्तस्य शरीरादिपरिणामित्वानुपत्तिः, द्वितीये चाकारणता यद्यहेतुकत्वं तदा तस्य नियामकत्वे युगपदेवाशेषदेहोत्पादप्रसङ्गः कारणाभावस्य समानत्वाद् / यदि च तल. स्वार्थिकत्वात् कारणवदन्यनियत्यन्यकारणपरत्वादकारणता नियतिकारणमात्रमुच्यते तदा तन्मात्रजन्यत्वे शरी. रादेरभ्रादिविकारवदादिमत् प्रतिनियताकारत्वं न स्यात् / आदिमत् प्रतिनियताकारत्वादेव घटादिवच्छरीरादेरुपकरणसहितकर्तृनिव[व!]य॑त्वेन कर्मजन्यत्वस्यैव सिद्धेः / तृतीयपक्षेऽपि स्तुधर्मो यद्यमूर्त इष्यते तदा तस्य शरीरादिपरिणामनियामकत्वविरोधो, यदि च मूर्त इष्यते तदा कर्मणेऽपि पुद्गलास्तिकायपर्यायविशेषत्वेन वस्तुधर्मत्वात् सिद्धसाध्यतैवेति सर्वमवदातम् / / इति न्यायविशारद-न्यायाचार्यमहोपाध्यायश्रीमद्-यशोविजय - वाचकविरचिता द्वितीया वादमाला समाप्ता / इयं वादमाला परमपूज्यआचार्यश्रीमद्विजयधर्मसूरीश्वरशिष्यमुनियशोविजयेन संशोधिता संपादिता च / वि० सं 2017 वर्षे, बम्बई नगरे //