________________ 108] पादमाला [2] र्गजनकजनकमित्याद्यनुमितौ कृतध्वंसविषयत्वादतिरिक्ता सिद्धिरिति तत्सर्वमपास्तम् / तत्त्वज्ञानप्राक्कालोनकर्मणां बहूनामवस्थितिधोव्येन तेषां ध्वंसव्यापाराप्रच्यवादविकलफलत्वे मोक्षानुत्पादप्रसंगत् / ____ अथ तत्त्वज्ञानविशिष्टध्वंसातिरिक्तध्वंसस्य व्यापारत्वान्न दोषः, अत एव-'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ! [गीता, अ.] ति संगच्छते; इदमेव हि सर्वकर्मभस्मसात् कारित्वं यत्सर्वकर्मफलविघटकस्वमिति चेत् , न, एवं सति तत्त्वज्ञानिनां प्रारब्धफलस्याप्यनापत्तेः / तत्त्वज्ञानविशिष्टादत्तफलध्वंसातिरिक्तध्वंसस्य व्यापारत्वात्तद्भवभोग्यकर्मणश्च दत्तफलत्वान्न दोष इति चेत् , न, ऐहिकामुष्मिकनानाफलजनककर्मणां तद्भवानुभूतकिंचित्फलानां तथाप्यनाशे मोक्षानुपपत्तितादवस्थ्यात् / किं च क्रियाजन्यादृष्टानभ्युपगमे मोक्षार्थिनां प्रवृत्तिरपि दुर्घटा स्यात् / कर्मक्षयार्थमेव तस्या उपपत्तेः / दुःखध्वंसस्य स्वत एव सम्भवेन तदर्थ तदनुपपत्तेः / चरमदुःखध्वंसत्वेन च न काम्यता, चरमदुःखमुत्पाद्य तद्ध्वंसस्य तत्त्वज्ञानेनोत्पादने दुःखहेतौ प्रवृत्त्यापत्तेः अमिद्धोपरागेण सिद्धासिद्धविषयकेच्छाभ्युपगमे कृत्स्नकर्मक्षयत्वेनेतरथा तु विशिष्टकर्मक्षयत्वेन काम्यता तु नानुपपन्नेत्यवसेयम् / किं च महाप्रायश्चित्तधर्मसन्न्यासादीनामन्त. तस्तत्त्वेनैककालोत्पत्तिकानन्तादृष्टध्वंसे हेतुत्वमेवोचितम् / तत्तद्ध्वंसातिरिक्तत्वेन व्यापारविशेषणे तत्तत्प्रायश्चित्ताद्यभावविशिष्टत्वेन कारणत्वे चातिगौरवम् / न च समूहालम्बनदुःप्रणिधानाद्यनुरोधेन तत्तत्प्रायश्चित्ताद्यभावोऽवश्यं निवेश्य इति वाच्यम् / समूहालम्बनदुःप्रणिधानजन्यस्य समानविषयकप्रायश्चित्तनाश्यस्यातिरिक्तस्यैवादृष्टस्य स्वीकारात् / अपि च न यथाबद्धमेव कर्म सर्वैवैद्यते बन्धोत्तरमुत्कृष्टस्यापकृष्टस्य परिणामविशेषवशात् प्रकृत्यन्तरसंक्रमेणान्यादृशस्य च वेदनात् , अत एव हिंसादिफलेऽपि मिथो महदन्तरं तत्र तत्र प्रसिद्धं, न चायं प्रकारो ध्वंसे सम्भवतीत्यवश्यं विचित्रमदृष्टमङ्गीकर्तव्यम् / अदृष्टस्यात्मगुणतायानिरासः पौद्गलिकसाधनश्च: एतेनात्मनो विशेषगुणरूपमप्यदृष्टं यत्परैरुपगम्यते तदपि निरस्तं भवति; धर्मविशेषात् प्राक्तनपापकर्मापकर्षस्य प्राचीनपुण्योत्कर्षस्य संक्रमजनितवैलक्षण्यस्य चादृष्टगुणत्वे [s] सम्भवात् सूक्ष्मकर्मपुद्गलरूपादृष्टपक्ष एव सर्वस्यास्यार्थस्य घटमानत्वात् / ___ अथ भवतां तत्र क्रियायाः फलव्यभिचारवदस्माकमदृष्टव्यभिचारोऽपि न दोषायेति चेत् , न, अस्माकं तत्र साक्षात्फलस्यादृष्टरूपस्याव्यभिचारात् परम्पराफलभेदस्य चार्थसिद्धस्योपपत्तेः / किं चादृष्टस्य गुणरूपत्वे तत्र पक्वाऽपक्वादिभेदाभावादानादिजन्यादृष्टात्तदानीमेव स्वर्गाद्यापत्तिः, न च स्वर्गीयशरीरादिविशेषकारणाभावान्न तदापत्तिस्तस्याप्यदृष्टहेतुकत्वे. नापत्तितादवस्थ्यात् / कालविशेषादनतिप्रसङ्गे च तस्येव सर्वत्र कार्यनियामकत्वे एककारणपरि