________________ वादमाला [2] [107 साधनलाभाभावस्य लाभान्तरप्रयोज्यत्वात्, एतेन तत्क्षेत्रे तदा तदीयशस्योत्पत्यनुकूलशक्त्यभावादेव न शस्योत्पत्तिरित्यपास्तम् / शक्तिविघातस्यापि तत्रादृष्टप्रयोज्यत्वात् / किं चैकजातीयेष्टानिष्टसाधनसम्प्रयोगेऽपि पुरुषभेदेन सुखदुःखानुभवतारतम्यदर्शनात्तेषामदृष्टप्रयोज्यजातिव्याप्यजात्यवच्छिन्नं प्रत्येव हेतुत्वाददृष्टविशेषसिद्धिः, न च भेष नबद्धानुसात्म्यादिद्वारकमेव तत्तारतम्यमिति वाच्य, ततः साक्षात् सुखादितौल्याद्धातुवैषम्यादेरुत्तरकालोनत्वात्, न च शरीरविशेषादेव सुखादिविशेषसिद्धिरिति शरोरविशेषादर्शनेऽपि सर्वतोऽनुक्लवेदनीयोदये भोगविशेषदर्शनात् / तदिदमुक्तं भगवता भाष्यकृता-- जो तुल्लसाहणाणं फले विसेसो ण सो विणाहेउं / कज्जत्तणओ गोयम ! घडो व्व हेऊ असेकम्मं // त्ति [वि. भा. गा. 1673]] ननु यदि क्रियामात्रजन्यमदृष्टं भवद्भिरभ्युपगम्यते तदा [* 3] चरमशरीरिणामपि गृहस्थावस्थार्जितबहुकर्मणां बहुभव भोग्यानामवस्थान ध्रौव्यात् संसारानुपरमः स्यादिति चेत् , स्यादयं तेषां दोषो ये एकान्तत एकरूपं भोगैकनाश्यं च कर्माभ्युपगच्छेयुः वयं तु सर्व कर्म प्रदेशतो नियतभोगमनुभागतश्च भजनीयभोगं वदाम इति न कोऽपि दोषः, चारित्रवीर्येण बहूनामप्यवस्थितकर्मणां प्रक्षयेण मोक्षोपपत्तेः / एतेन यदुच्छंखलैरुच्यते दानादीनामागमबोधितनियतस्वर्गादिफले स्वध्वंस एव व्यापारोऽस्तु किमदृष्टकल्पनया; नचैवं दानादेः प्रतिबन्धकत्वव्यवहारापत्तिः; संसर्गाभावत्वादिना कारणीभूनाभावप्रतियोगित्वेनैव तद्वयवहारात्, नचैवं प्रायश्चितकीर्तनादिविशिष्टकर्मणोऽपि फलापत्तिस्तद्ध्वंसातिरिक्तध्वंसस्यैव व्यापारत्वात् / अस्तु वा प्रायश्चित्ताद्यभाववत्कर्मत्वेन हेतुत्यम् / इत्थं च प्रायश्चित्तादौ प्रवृत्त्यादिकं सूपपादम् द्विष्टाभावोदेशेन द्वेषयोनिप्रवृत्तेरविरोधात्, नचैवं दत्तादत्तफलोद्देश्यकप्रायश्चित्ते कृते दत्तफलादपि फलं न स्यात् स्याद्वाऽदत्तफलादपि फलमिति वाच्यम् / तत्तत्प्रायश्चित्तविशिष्टादत्तफलध्वंसातिरिक्तध्वंसस्यादत्तफलनिष्ठोद्देश्यतया तदभावस्य वा निवेशात् / एतेन प्रायश्चित्तं न नरकादिप्रतिबन्धकमाशु विनाशित्वेन तदुत्पत्त्यवारकत्वात् / नापि तद्ध्वंसः प्रायश्चित्तानन्तरकृतगोवधादितोऽपि नरकानुत्पत्त्यापत्तेः / तत्तत्प्रायश्चित्तप्राग्वतिगोवधादिजन्यनरके तत्तत्प्रायश्चित्तध्वंसस्य प्रतिबन्धकत्वे च प्राग्जन्मकृतगोवधादितोऽपि नरकानुत्पत्त्यापत्तिः तज्जन्मकृतत्वस्य प्राग्वत्तिंगोवधविशेषणत्वे त्वप्रसिद्धिरित्यपास्तम् / अथ मिथ्याज्ञानानवासनाया अदृष्टहेतुत्वं सम्भवति नतु दानादिध्वंसहेतुत्वं भोगहेतुत्वं वा तत्वज्ञानिनां दानादेरनन्तत्वापत्ते गानापत्तेश्च, तथा च तत्वज्ञानिनां मुक्तिर्दुर्लभेति चेत् , न, तद्ध्वंसातिरिक्तध्वंसव्यापारत्वात्तत्र स्वर्गानुत्पत्तेः तस्मादानादिकं स्व * तदा शब्दानंतरं मूलप्रतौ [3] एतादृश उल्लेखो वर्तते /