________________ वादमाला [2] पारकत्वाकल्पनात् / कालान्तरभाविनि फले चिरनष्टस्य कारणस्य भावव्यापारकत्वनियमाच्च, अन्यथाऽपूर्वोच्छेदापत्तेः / किं च किंचिदवयवनाशेन प्रतिमान्तरोत्पत्तौ तत्र प्रतिष्ठाध्वंसानभ्युपगमात् पूज्यतानापत्तिरुक्तसंसर्गाभावानां बहूनामवच्छेदकत्वनिवेशे गौरवात्, प्रतिष्ठायाः शक्तिविशेषे तन्नाशेऽस्पृश्यस्पर्शादीनां चैकशक्तिमत्त्वेन हेतुत्वे लाघवात् , एतेन प्रागभावासत्त्वे कचितत्प्रतिष्ठाध्वंसमानं कचित्तत्तच्चाण्डालस्पर्शध्वंसविरहविशिष्टं तत् पूजाफलप्रयोजकमिति नव्यमतमप्यपास्तमिति दिग् // 5 // कालान्तरभाविफलानुकूलविहितनिषिद्ध क्रियाजन्यभावव्यापाररूपमदृष्टमप्रामाणिकमिति बाह्यास्तन्न; दानदयाब्रह्मचर्यादिक्रियाणां वैफल्यप्रसङ्गात् / दृष्टधान्याद्यव्या[व]प्तिफलक कृष्यादिक्रियावदानादिक्रियाणामपि दृष्टमनःप्रसादादिफलकत्वमेवेति चेत् , न, मनः प्रसादादेरपि फलवत्वान्यथानुपपत्त्याऽदृष्टस्यैव सिद्धेः / ___ अथ दानादिक्रियाणां श्लाघादि यत्किञ्चिदृष्टफलेनैव पर्यवसितत्वान्न शुभादृष्टजनकत्वं यथा मांसभक्षणादिदृष्टप्रयोजनपर्यवसितानां पशुहिंसादिक्रियाणां प्रमाणाभावान्नाशुभादृष्टजनकत्वं, न चादृष्टफलादेशेन लोकप्रवृत्तिरेवादृष्ठे प्रमाणम् / दृष्टफलोदेशेनैव बहूनां प्रवृत्तेस्तदसंख्येयभागस्याप्यदृष्टफलोद्देशेनाप्रवर्त्तमानत्वादिति चेत्, न, दृष्टफलोदेशेन बहूनां प्रवृतेरेवानन्तसंसारिजीवान्यथानुपपत्तेरदृष्टसिद्ध्यावश्यकत्वात् , दृष्टफलमुद्दिश्य कृष्यादिप्रवृत्तानामपि। पापलक्षणमदृष्टमनभिलषितं बवाऽनन्तसंसारपरिभ्रमणादनन्तावस्था लोपप्रतेः, अदृष्टफलोद्देश्यकदानादिक्रियाप्रवृत्तानां धर्मरूपमदृष्टमासाद्य स्वल्पानामेव क्रमेण मुक्तेः / कृष्याद्यर्थ प्रवृत्तानामनभिलषिताशुभादृष्टस्य लाभः कुत इति चेदविकलकारणस्य फलजनने आशंसाया अप्रयोजकत्वाद् / वप्ताऽज्ञातस्यापि कोद्रवादिबीजस्य कोद्रवायङ्कुरजनकत्वदर्शनात् / कृष्यादिक्रियाणां च हिसादिमयीनां क्वचिददृष्टफलव्यभिचारिणीनामप्यशुभादृष्टजननेऽच्यभिचारित्वात् / न चेदेवं तदा कृष्यादिक्रियाकर्तणामनभिलषिताशुभादृष्टानुत्पादाज्जन्मान्तरीयशरीरपरिग्रहाभावादयत्नेन मुक्तेश्छिनप्रायः संसारः स्यात्, स्याच्च हिंसादिक्रियाणामेवेत्थमक्लेशफलत्वं दानादिक्रियाणां चाभिलषितादृष्टफलानां जन्मान्तरीयशरीरपरिग्रहबीजत्वात् क्लेशबहुलत्वमिति महदसमंजसमिदमापद्यते। तस्माददृष्टफलं प्रति सर्वा अपि क्रिया अव्यभिचारिण्य एव; दृष्टफलं प्रति तु क्वचिद्व्यभिचारिण्योऽपीति प्रतिपत्तव्यम् / दृष्टफलविघातोऽपि च तासामदृष्टहेतुक एव / नहि समानसाधनारब्धतुल्यक्रियाणामेकस्य दृष्टफलविघातोऽन्यस्य तु नेत्येतददृष्टहैतुमन्तरेणोपपद्यते / तत्रापि दृष्टकारणवैगुण्यमेव कल्पनीयमिति चेत् , नापेक्षिकवैगुण्यस्याप्रयोजकत्वात्तात्त्विकवैगुण्यस्य चादर्शनात् / न हि यादृश एव क्षेत्रे एकस्य शस्योत्पत्तिस्तादृश एवापरस्य तदनुत्पत्तावतत्तकालीनत्वादिकं विनाsन्यत्क्षेत्रवैगुण्यमस्ति / किं च दृष्टकारणविघातोऽपि तत्रादृष्टहेतुक एव / सत्यां लिप्सायां भोग