________________ वादमाला [2] 105 यत्वकृतप्रतिष्ठे प्रतिमादौ पूजाफलाभावात् प्रतिष्ठादेः क्षणिकत्वात्तदाहिता शक्तिश्चाण्डालादिल्पर्शनाश्या पूजाफलप्रयोजिका स्वीकार्या / न च यजमानगतादृष्टं तदाहितं तथा चाण्डालादिस्पर्शेन व्यधिकरणेन तन्नाशायोगात् / यजमानस्य तददृष्टक्षये पूज्यतानापत्तेश्चेति मीमांसका नैयायिकानाक्षिपन्ति, तत्र पुनरस्माकमाचार्याणां न स्वारस्यम् / प्रतिष्ठाविधिना मुख्यदेवतास्वरूपालम्बनस्य निजभावस्य स्वात्मन्येव व्यवस्थापनात् प्रतिमायां स एवायमित्यभेदोपचारस्यैव पूज्यताप्रयोजकत्वात्। प्रतिमायां वर्द्धमानत्वाद्याहार्यारोपजनकेष्टसाधनताज्ञानविषयतावच्छे. दकत्वेनैव प्रतिष्ठाया उपयोगात् / अनादिमत्यां हि प्रतिमायां सर्वस्यामेव भगवदभेदाध्यारोप इष्टसाधनमादिमत्यां तु प्रतिष्ठितायामेवेति ततः प्रतिष्ठाहितशक्तिकल्पनमनतिप्रयोजनमित्यापातदर्शिनः / अत्रेदमवधेयं, यद्यपि प्रतिमायां प्रतिष्ठितत्वज्ञान प्रतिष्ठाविधिप्रतिसन्धानोत्थापितवचनादरभंगवद्बहुमानाहितसमापत्तिद्वारा विशिष्टफलप्रयोजकम्, अत एव मूलोत्तरगुणसहस्रसमेतसाधुकृतप्रतिष्ठैवोत्सर्गतः प्रमाणं, प्रतिष्ठोत्कर्षस्य समापत्त्युत्कर्षकत्वात्। तथाऽपि वस्तुतः प्रतिष्ठितायां प्रतिमायां भगवदारोपस्तत्पूजनं वा सामान्यफलं नातिक्रामतीति तन्नियामकशक्तिसिद्धिः विषयभेदात् फलभेद इति व्यवहारनयसाम्राज्यात्, अत एव साधुत्वासाधुत्वविवेचनाभावेऽपि पात्रभेदादानफलभेदस्तत्र तत्र व्यवतिष्ठते / आलम्बनमतन्त्रं भावभेद एव फलभेदहेतुरिति तु नयान्तरमतमिति 'गुरुतत्त्वविनिश्चये' विवेचितमस्माभिः / यत्तु प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधिरहङ्कारममकाररूपः क्रियते विशेषदर्शनेऽपि स्वसादृश्यदर्शिनश्चित्रादाविवाहार्यारोपसम्भवाद्, ज्ञानस्य नाशेऽपि संस्कारसत्त्वाच्च न पूजाफलानुपपत्तिरस्पृश्यस्पर्शादिना च तन्नाश इति परेषां मतं; तदत्यन्तमसम्बद्धम् / वीतरागदेवस्थले इत्थं वक्तुमशक्यत्वात् सरागे देवत्वबुद्धेरेव च मिथ्यात्वात् / असर्वज्ञसरागदेवानां व्यासङ्गदशायां व्यवहितनानादेशेषु प्रतिष्ठाकर्मबाहुल्ये चाहङ्कारममकारानुपपत्तेः / संस्कारनाशेऽपूज्यत्वापत्तेस्तद्ज्ञानसंस्कारयोरननुगतयोः पूजाफलप्रयोजकत्वे गौरवाच्चेति / न च भवतामपि व्यासङ्गवशात् प्रतिष्ठितत्वज्ञा / नाभावे पूजाफलानुपपत्तिरिति वाच्यम् विशेषफलाभावेऽपि प्रीत्यादिना तदा सामान्यफलानपायस्योक्तत्वाद् / यैस्तु.यथार्थप्रतिष्ठितत्वप्रत्यभिज्ञानम्, पूजाफलसामान्य एव प्रयोजकमिष्यते तेषामयमपि दोष एव / यत् पुनरुच्यते चिन्तामणिकृता प्रतिष्ठितं पूजयेदिति विधिवाक्येन प्रतिष्ठायाः कारणत्वं न बोध्यते किन्तु भूतार्थे क्तानुशासनादतीतप्रतिष्ठे पूज्यत्वं बोध्यते तथा च प्रतिष्ठाध्वंसः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शादिप्रतियोगिकानादिसंसर्गाभावविशिष्टः पूज्यत्वप्रयोजक इति तदप्यविचारि[त] रमणीयम् / प्रतिष्ठायाः क्रियेच्छारूपत्वेन तद्ध्वंसस्य प्रतिमानिष्ठत्वाभावात् , क्तप्रत्ययस्थलेऽपि प्रोक्षिता बीहय इत्यादौ ध्वंसव्या वा. [2] 14