________________ 204] वादमाल [2] पुरुषनिष्ठस्यादृष्टस्य स्वीकारे मन्त्रितजलस्याशुचिस्थानमोचनादिनाऽपि तत्फलापत्तिः / न च ततस्तददृष्टनाशः कल्पनीयो व्यधिकरणस्य तस्य तदनाशकत्वात् / किं च नानापुरुषोद्देशेन मन्त्रितस्य साधारणजलस्य नानापुरुषेभ्यो विभज्यदनस्यैकेनाशुचिस्थाननिवेशेऽदृष्टनाशात् सर्वस्याप्यसस्कृतत्वेऽन्येषामपि फलं न स्यात् , तदनाशे चाशुचिस्थानसंसृष्टतज्जलपानादपि फलं स्यात, एतेनानेकजलादिनिष्ठव्यापारकल्पने गौरवादेकात्मनिष्ठव्यापारकल्पनमेवोचितमित्यपास्तम् / अनन्यगत्या जलादिगतनानाव्यापारकल्पनावश्यकत्वात् / अशुचिस्थानसंसर्गाद्यनवच्छिन्नसम्बन्धविविशेषेणादृष्टस्य नियामकत्वान्नानन्यगतिकत्वमिति चेत् , न, तथाऽप्येकपुरुषीय विषचालने प्रतिबन्धोद्देश्यकप्रतिबन्धकमन्त्रेण साधारणविषचालक मन्त्रपाठजनितादृष्टनाशानाशाभ्यां सर्वेषामेकस्य चाधिकृतस्य फलानापन्यापत्तिभ्यां व्यापारनानात्वकल्पनध्रौव्यात् / तत्तत्पुरुषोद्देश्यकप्रतिबन्धकमन्त्राभावविशिष्टविलक्षणमन्त्रत्वेन तत्तत्पुरुषीयविषचालनादौ पृथकारणत्वकल्पने च गौरवात् / किश्च यत्र मणिविशेषस्पृष्टजलपानाद्विषचालनं तत्र शक्तिं विना का गतिः ? न हि तत्रापि मणिविशेषाददृष्टमुत्पद्यते सम्बन्धविशेषेण जलगतप्रयोक्तृनिष्ठतदुत्पादाभ्युपगमे दाहप्रतिबन्धकस्यापि मण्यादिसमवधानजन्यस्य सम्बन्धविशेषेण काष्ठादिगतस्यादृष्टस्यैव कल्पनापत्तेः / किं च यत्र योगीन्द्रपदरजः स्पर्शविशेषाद्दुष्टकुष्ठादिनाशकं तीर्थजलमुत्पन्नं तत्र शक्तिविशेषाभ्युपगमं विना न निर्वाहः / तत्स्पर्शध्वंसस्य तज्जलोपादानकजलान्तरेऽसंक्रमाद्ध्वंसेन भावव्यापारान्यथा सिद्धावदृष्टसंस्कारादेरपि विलयापत्तेश्च / अपि च सिद्धरसस्पर्शाल्लोहादौ तपनीयपरिणामः शक्तिविशेषनिर्वाह्य एव, सिद्धरसस्पर्श ध्वंसविशिष्टलोहे तपनीयारम्भस्य त्वया वक्तुमशक्यत्वाल्लोहस्यान्त्यावयवित्वात् तत्र लोहनाशतपनीयावयवागमनकल्पनं तु नानुभवयुक्त्यनुरोधि / अस्माकं तु शक्तिवैचित्र्यानाकाप्युनुपपत्तिः, सुवर्णाभिन्नद्रव्यशक्त्या स्थितस्यैव लोहस्य सिद्धरसस्पर्शाहितशक्त्या गुरुत्वरूपविशेषाद्यात्मकतपनीयपरिणामोत्पादकत्वाविरोधात्, न चैवं कृतस्यैव करणापत्तिः कथञ्चित्तस्य दृष्टेष्टत्वात्, अत एव घटोऽपि रूपितया पूर्व कृत एव संस्थानजलाहरणशक्तिभ्यां च पूर्वमकृतः / रूपित्वसंस्थानशक्तिसमुदायेन च कृताकृतः / आधसमयावच्छेदेन च क्रियमाणः क्रियते / घटत्वेन पूर्वेवं ?]कृतः पटत्वेन पूर्वमकृतो घटत्वपटत्वाभ्यां पूर्व कृताकृतः क्रियमाणश्चोत्पत्तिसमये पटतया न क्रियत इत्यस्माकं कृताकृतत्वसिद्धान्तः / तथा च भाष्यं - रूवि त्ति कीरइ कओ कुंभो संठाणसत्तिओ अकओ।। दोहि वि कयाकओ सो तस्समयं कज्जमाणो अ॥ [वि० भा० गा० 3372] पुवकओ उ घटतया परपज्जाएहिं तदुभएहिं च / कज्जंतो य पड़तया ण कीरए सव्वहा सव्वकुंभो // त्ति [वि० भा० गा० 2730]