________________ वादमाला [2] [103 ष्टविशेष एव ममोद्भूतरूपादिनियामक इति चेन्न मम शक्तिविशेषानुकूलशक्तेरेव शक्तिविशेषप्रयोजकत्वात्-कारणपरम्परानवस्थावच्छक्तिपरम्परानवस्थाया अदोषत्वात् / अदृष्टे पापपुण्यरूपे सांकर्यादनुगतविशेषासम्भवाच्च / किं च; नानापरमाणुनिष्पादितस्य बादरस्कन्धस्य नानारूपरसगन्धस्पर्शसमन्वितत्वात् क्वचिदेव कस्यचिदुद्भवानुद्भवार्थमवश्यं शक्तिविशेषः स्वीकर्तव्यो नीलाद्यवयवैरेव नीलाद्यवयवी जन्यत इत्यत्र प्रमाणाभावात्, नीलादिपरमाणुभिरेव कदाचित् पीतादिजननात्, तत्र पाकादिना नियमतो रूपादि परावृत्तेरवयविनीलादाववयवगतनीलाभावादेः प्रतिबन्धकत्वस्य पाकाजन्यावयविनोलादाववयवनीलादेविलक्षणनीलादौ विजातीयतेजः संयोगादेर्हेतुत्वस्य च कल्पनापेक्षयाभूतनीलादौ शक्तिविशेषस्यैव हेतुत्वौचित्यात् / एतेनेदं परेषां कल्पनाशतमपास्तम् तथाहि अवयवोद्भूतरूपादिकमेवावयव्युद्भुतरूपादौ तन्त्रम् / रसनाद्यारम्भकाः परमाणवो योग्यजलारम्भकाद्भिन्ना एवेत्येके / ____ अनुभूतत्वस्यैव जातिवाज्जन्यानुद्भूतरूपेऽनुभूतेतररूपाभावोऽवयविशुक्लादौ चावयक्शुक्लादिकं हेतुः, इत्थं च न परमाणुभेदस्वीकारः, न वा भर्जनकपालस्थवावुद्भूतरूपतेजः प्रवेशादुद्भूतरूपानुपपत्तिरित्यन्ये / पृथिवीत्वादिरूपनिश्चयेऽपि नीलत्वादिना निश्चयाभावान्नोलादिविजातीयमेवानुभूतमित्थं चैकमेवानुभूतत्वं नोलस्वादिव्यापकमुद्भूतत्वमेव वैकमनुभृतत्वं तु तदभावः / उद्भूतान्यसमवेतत्वादेव हि घटादिना चक्षुराकाशसंयोगादिकं न चाक्षुषं अवयव्यनुभूतासमवायिहेतुतावच्छेदिका जातिर्वाऽस्तु ! रसनाद्यारम्भकाऽस्तु योग्य जलानारम्भकाः / शुक्लेतररूपवता शुक्लरूपवदनारम्भादित्यपरे / पृथिवीत्वादिना क्लप्तकार्यकारणभावकनोलाद्यन्यतमसिद्धेर्घाणादौ नीलाघेकतरनिश्चयस्यानुद्देश्यत्वान्नानैवानुभूतत्वमित्यन्ये / शुक्लत्वव्याप्यमेकमेवानुद्भूतत्वं चक्षुरादिरूपे भास्वरत्वादिजातो मानाभावात्, वाय्वाधाकृष्टचम्पकादिभागास्तु चम्पकानारम्भकाः शुक्ला एव रूपवैषम्येऽपि गन्धसम्भवादित्यपरे / ___ एकत्वनिष्टमेवोद्भूतत्वं विषयविशेषत्वमेव वा, प्रत्यक्षप्रयोजकं रूपं तु सर्व समानमेवेत्यन्ये इति / अपि चाभिमन्त्रितपयः पल्लवादौ विषचालनादिनियमार्थमपि शक्तिरावश्यको / न च तत्र मन्त्रपाठतः पुरुप एवादृष्टस्वीकारा निर्वाहः किञ्चिदशोचाभावस्य कचित् प्रयोजकत्वादशौचेऽपि कचिदधिकारादशुचिपुरुषेऽपि ततोऽदृष्टोपपत्तेरिति वाच्यम् पुरुषनिष्ठस्यादृष्टस्य सम्बन्धविशेषेण जलादिनिष्ठत्वकल्पने गौरवाज्जलादिनिष्टव्यापारस्यैव कल्पनौचित्यात् / किं च मन्त्रपाठादिना * मूलादर्श 'सम्भवाच्च' शब्दानन्तरं किंचित्पाठो ग्रन्थकारैरेव रेखां कृत्वा निष्कासितः / .