________________ 102] वादमाला [2] अथ तृणादौ वह्निकारणतानवच्छिन्नैवास्तु किं शक्तिकल्पनया ? न हि कारणता किश्चिधर्मावच्छिन्नैवेति व्याप्तिरस्ति प्रमाणाभावात् / तन्तुत्वेन तन्तुः पटकारणं पटत्वेन पटस्तन्तुकार्यमिति प्रतीत्या तत्रावच्छेदकसिद्धावपि प्रकृते तदभावात् , शक्तिविशेषेण तृणं वह्निहेतुरिति प्रतीतेरसिद्धेः शक्तेरतीन्द्रियत्वोपगमात्, अस्तु वा सर्वत्रापि कार्यता कारणता च निरवच्छिन्नैव / तन्तुः पटकारणमित्यादिको हि लोकानामनुभवो न तु तन्तुत्वादिनाऽपि / द्रव्यत्वेन न तन्तोः पटकारणत्वं किन्तु तन्तुत्वेनेत्यादिकाः प्रतीतयस्तु केवलं तान्त्रिकाणामेवेति चेत्, न लोकैरपि सामान्यविशेषोपयोगपरैर्वस्तुमात्रस्येव कारणत्वस्य कार्यत्वस्य चावच्छिन्नानवच्छिन्नस्यैवानुभवात् / सप्तभङ्गया तत्संकलनमात्रस्यैव शास्त्रार्थत्वात् / वह्निनिरूपितकारणतायास्तृणत्वेन तृणनिरूपितकार्यतायाश्च वह्नित्वेन प्रथमतो ग्रहेऽपि वह्निसामान्यतृणसामान्यकार्यकारणभावोपयोगे तृणत्वेन व्यभिचारस्फूत्री शक्तिविशेषेणैव तृणे वह्निसामान्यहेतुताया ऊहाख्यप्रमाणेन परिच्छेदात् / न चेदेवं दण्डघटाद्योरपि कार्यकारणभावो दुरुपपादः स्यात् / घटत्वस्य मृत्वस्वर्णत्वादिसंकीर्णतया जातित्वासिद्धेस्तस्यै कत्ववृत्तित्वाभ्युपमेऽपि दोषादेकत्वाग्रहे तदग्रहापत्तेः, नव्यमते एकत्वस्याप्येकत्वाच्च / न च कुलालस्वर्णकारादिजन्यतावच्छेदकमृत्वस्वर्णत्वादिव्याप्यनानाघटत्वाभ्युपगमेऽपि निस्तारो दण्डत्वस्यापि तद्वदेव नानात्वेन व्यभिचारात् / यावद्दण्डभिन्नावृत्तिजातित्वेनानुगतीकृत्य तन्निवेशे गौरवात् / विजातीयसंयोगव्यापारकत्वस्य च कारणान्तरघटितत्वेन तेन रूपेणाप्यहेतुत्वात् / न च भ्रमिप्रयोजकावयवसंयोगविशेषवत्वेनैव हेतुत्वमस्त्विति वाच्यम् / तद्विशेषस्यापि जातिरूपस्यासिद्धेनोंदनात्वादिना सांकर्यादिति शक्तिविशेषेणैव दण्डादेर्घटादिसामान्यहेतुत्वमुचितमिति दिग् / उत्तानास्तु तत्तत्सम्बन्धान्यतमत्वेन सम्बन्धानां तृणाद्यन्यतमत्वेन च तृणादीनां हेतुत्वान्न शक्तिसिद्धिः / न च तत्तदन्यत्वविशिष्टैतदन्यत्वावच्छिन्नप्रतियोगिताको भेदस्तथा च विशेषणविशेष्यभावे नानाकार्यकारणभावप्रभङ्ग इति वाच्यम् एकस्यैव भेदस्य तादृशनानाप्रतियोगिताकत्वेन परिचितस्याखण्डस्य स्वरूपतो निवेशादित्याहुः, तदसदित्थं सति सर्वत्रापि भेदविशेषेणैव कार्यकारणभावसम्भवे कुत्रापि तदवच्छेदकतया जात्यसिद्धिप्रसंगात्, भेदविशेषेण बुद्धि बिशेषेण वा हेतुत्वमित्यविनिगमाच्छक्तिविशेषस्यैवावच्छेदकत्वेन कल्पनौचित्याच्च / किं च ब्रीह्यादिजनननियामकोऽपि व्यापारविशेषः शक्त्याख्योऽवश्यं केल्पनोयः / अन्यथा व्रीह्यादिवापे व्रीह्यादोनामापरमाण्वंतभङ्गे :ब्रोह्यारम्भकपरमाणुभिर्नीहय एव जन्यन्त इति नियमो न स्यात्, तैरपि कदाचिद्यवाद्यारम्भात्, न च पाकजविलक्षणरूपरसादिविशिष्टपरमाणूनामेव यवाद्यारम्भकत्वान्नेयमापत्तिरिति वाच्यं, पाकजविलक्षणरूपरसादीनां बहूनां जनकतावच्छेदकत्वादिकल्पनापेक्षन्नैकशक्तिकल्पनस्यैव न्याय्यत्वात् / किं च तव मते यत्र पाकजा न विशेषास्तत्र जलादौ कचिदुद्भूतरूपादिकं कचिन्नेत्यत्र शक्तिं विना किं नियामकम् / तव शक्तिविशेषप्रयोजकोऽदृ