________________ वादमाला [2] * ममतु दाहशक्तौ तदनुकूलशक्तिमत्त्वेन वढेरेव / मवतां तूक्तरीत्याऽनन्तकार्यकारणभावाः कल्पनीया इति लेशतोऽपि साम्याभावान्नानाशक्तिनाशोत्पादादिकल्पनागौरवस्य फलमुखत्वेनादोषत्वात् / ननु भवतां प्रतिबन्धकदशायां कृशानौ दाहशक्त्यनुकूलशक्तिरस्ति न वा। नास्ति चेत् कुतः पुनरुत्पद्यते ? शक्त्यन्तरसहकृतादग्नेरेवेति चेत्तर्हि साऽपि शक्त्यन्तरासहकृतात्तस्मादेवेत्यनवस्था; वस्तुतस्तद्वढे रेक्त्वात्तच्छक्तेः स्वकारणप्रभवत्वे प्राक् सा नास्तीति वचनस्यैव व्याघातः / कारणान्तरप्रभवत्वे च किं तया, कारणान्तरादाहशक्त्युत्पत्तेरेव वक्तुं युक्तत्वात् / अथास्ति तदा तदानीमपि दाहोत्योदिकां शक्तिं सम्पादयेत् / ततोऽपि दाहः स्यादेवेति चेत् ; अत्रोच्यते प्रतिबन्धकावस्थायामप्यस्त्येव दाहशक्तिसम्पादकं शक्त्यन्तरं तदुत्पन्नोत्पन्नदाहशक्तेः प्रतिबन्धकेन च नाशाच्च न तंदा दाहोत्पत्तिः प्रतिबन्धकापगमे तु: दाहव्यक्तिः स्फुटैवेति व्यक्तं 'स्याद्वादरत्नाकरे'। नन्वेवं विनश्यदवस्थयाऽपि दाहशक्त्या प्रतिबन्धकदशायां दाहजननापत्तिः कारणस्य कार्यप्राक्कालसत्ताया एवापेक्षितत्वादिति चेत्-न, कार्यसहभावेनैवैतस्या हेतुत्वात् , न च तथापि क्षणिकत्वापत्तिः पर्यायार्थतः कचित् क्षणिकताया अपोष्टत्वात् , न च शक्ति धारापत्तिरेकशक्तिनाश एवापरशक्तिजननादिति बोध्यम् / अन्ये त्याहुः प्रथमं वयादिकारणजन्या वयादिनिष्ठाशक्तिः / प्रतिबन्धकेन च तस्या विनाश उत्तेजकेन पुनस्तदुत्पत्तिः, न च शक्तिहेत्वननुगमः / शक्त्यनुकूलशक्तिमत्वेनानुगमादिति / अस्मिन् मते उत्तेजकेन मण्यादेः शक्त्यनाशे उत्तेजकजनितदाहशक्तेमण्यादिना नाशादुत्तेजकसत्त्वेऽपि दाहानापत्तिः, उत्तेजकजनितदाहशक्तेमण्याद्यनाश्यत्वे चोत्तेजकापसारणदशायामपि दाहापत्तिः, उत्तेजकेन मण्यादेः शक्तिनाशेऽप्येतदोषतादवस्थ्यमेवोत्तेजकनाशिताया मण्यादिशक्तेः पुनरनुत्पादात् , उत्तेजकाभावस्य तद्धेतुत्वे चाभावकारणत्वप्रसङ्गो, मण्यादेरेव तदुत्पादकत्वे च वयादेरेव दाहशक्तिहेतुत्वमुचितमित्याकरपक्ष एव ज्यायानिति बहुतरम्हनीयम् / अपि च तृणारणिमणिषु वह्निजनकतावच्छेदकतया शक्तिसिद्धिर्दुर्वारा तृणत्वादिना वह्नित्वावच्छिन्नहेतुत्वायोगात्तृणादिकं विनाऽरण्यादितोऽपि वढेरुत्पादात् , न च वह्निनिष्ठजातित्रयकल्पनाददोषः तदपेक्षया तृणफूत्कारारणिनिर्मथनमणितरणिकिरणसंयोगेष्वेकशक्तिकल्पनायां लाघवात् / सम्बन्धत्रयनिष्ठैकजात्यङ्गीकारे च नोदनात्वादिना संकरप्रसङ्गः / यदि चान्वयव्यतिरेकाभ्यां तृणादेरपि कारणत्वमिष्यते तदा तेषामप्येकशक्तिभत्वेन तदस्तु तथापि जातित्रयकल्पनापेक्षया शक्तिद्वयकल्पनाया लघुत्वात् , तेष्वपि जात्यङ्गीकारे च मणित्वादिना संकरप्रसङ्ग इति / ___ * मूलादर्शऽयं पाठो विशीर्णो विद्यते /