________________ 100] वादमाला [2] योगस्योत्पादनायोगात् , असर्वज्ञैरस्यां नाड्यां मनो विद्यते संयोक्ष्यते चानेनेन्द्रियेणेति प्रत्येतुमशक्यत्वात् / कथं वैवमादरेण रूपादिकं पश्यतो वेगवत्तरमहामेघसंघट्टजन्मनो झनझना शब्दस्य झटित्येव साक्षात्कारः / उपयोगस्य नियामकत्वे तु न किंचिदनुपपन्नं बलवति विषये उपयोगस्थ सद्य एव सम्भवात् / अत्रोपयोगमाश्रित्य सर्वेऽपि जोवा एकेन्द्रिया एकस्मिन् काले एको.. पयोगवत्त्वाच्छेषेन्द्रियापेक्षया चैकेन्द्रियादिभेदः / अथवा लब्धीन्द्रियापेक्षयाऽपि सर्वेषां पञ्चेन्द्रियत्वमेव, बकुलादीनामपि कामिनीवदनार्पितमदिरागण्डूषादिना पुष्पपल्लवादिदर्शनात् , तस्य ज्ञानविशेषाहितप्रोतिविशेषाहृतेष्टपुद्गलनिमित्तकत्वात / सुप्तेऽपि कुम्भकारे कुम्भनिर्वृत्तिशक्त्या कुम्भकारत्ववद् बकुलादौ लब्ध्ये[ 'ब्धी ]न्द्रियपञ्चकसद्धावेऽपि पञ्चेन्द्रियत्वव्यप्रदेशो निवृत्त्यादिद्रव्येन्द्रियसम्बन्धाभावान्न भवतीति भाष्यसम्प्रदायः / अत्र च निवृत्त्युपकरणेन्द्रियसमुदायो न पञ्चेन्द्रियत्वव्यपदेशनिबन्धनमुपहतनयनादीनामपि तद्व्यपदेशात् , किन्तु पञ्चेन्द्रियजातिनामकर्मविपाकोदय एवेत्यत्रतात्पर्यमत एव जातिनाम्नो नेन्द्रियपर्याप्त्यान्यथासिद्धिः / निर्माणाङ्गोपाङ्गनामारचितनिष्पादित बाह्य निवृत्युपग्रहेण तस्याः प्रतिनियतपूर्णेन्द्रियनिष्पादकत्वेप्येकेन्द्रियादिव्यपदेशभेदस्य जातिनामभेदनिमित्तकत्वादित्यन्यत्र विस्तरः / न चैवं हिंसा दोषभेदेऽपीन्द्रियभेदनियामकत्वं विलीनमिति वाच्यम् / इन्द्रियघटितप्राणवियोगरूपायां हिंसायामिन्द्रियस्यापि प्रवेशादिति दिग् / 4 // शक्तेः पदार्थान्तरत्वम्-- ___द्रव्यादयः षडेव पदार्था इति वैशेषिकाणां पदार्थविभागोऽनुपपन्नः / शक्तेरप्येवं पदार्थान्तरत्वात् / तथाहि यादृशादेव करतलानलसंयोगादाहो जायते सति मण्यादौ प्रतिबन्धके तादृशादेव न जायत इति मण्यादिनाश्यं वह्निनिष्ठं किंचिदतीन्द्रियं दाहानुकूलं स्वोकर्त्तव्यं, सैव शक्तिः / न च मण्याद्यभावानामपि दाहहेतुत्वादेव तदा दाहानुत्पत्तिः, न चाभावस्य न कारणत्वं; कार्यत्वस्येव कारणत्वस्यापि भावत्वाव्याप्यत्वादिति वाच्यम् / उत्तेजके सत्यपि तत्र दाहानापत्तेः / न चोत्तेजकाभावविशिष्टभण्याद्यभावानां हेतुत्वाददोषः; एकोत्तेजकसत्त्वेऽप्यपरोत्तेजका भावसत्त्वेन तदोषानुद्धारात् , उत्तेजकत्वस्य च शक्त्यभ्युपगमे एकस्य दुर्वचत्वेन तदवच्छिन्नाभावस्य निवेशयितुमशक्यत्वात् / तत्तदुत्तेजकाभावकूटनिवेशे च परस्परं विशेषणविशेष्यभावे विनिगमनाविरहात् , नानाकार्यकारणभावकल्पने गौरवाहाहत्वावच्छिन्ने विलक्षणशक्तिमत्वेन हेतुत्वकल्पनाया एवोचितत्वात् / न च भवतामपि शक्तनाशे उत्तेजकाभावविशिष्टमण्यादीनां तावकार्यकारणभावकल्पनागौरवतोल्यमेव, अधिकं च नानाशक्तितत्कार्यकारणभावादिकल्पनागौरवनिति वाच्यम् / अस्माकं विलक्षणशक्तिमत्त्वेनानुगतोकृतोत्तेजकानां प्रतिबन्धकशक्तिनाशकत्वमेकं कल्पनोयमपरं च दाहशक्तिनाशत्वावच्छिन्ने विलक्षणशक्तिमत्त्वेन मण्यादीनां कारणत्वं