________________ वादमाला [2] संयोगत्वेनैवेति न प्राणेऽतिव्याप्तिरिति / तदेतन्निजगृहपरिभाषामात्रम् / इन्द्रियवर्गणादिजन्यतावच्छेदकत्वेन सिद्धस्य प्रकृष्टज्ञानकारणत्वाभिव्यङ्गयस्य द्रव्यनिष्ठस्येन्द्रियत्वस्य प्राणादाविव मनस्यवृत्तित्वात् , अन्यथा द्वीन्द्रियादिवधे त्रीन्द्रियादिवधजन्यदोषप्रसङ्गात् , न चैकेन्द्रियादिजीवभेदव्यवस्था परं प्रत्यसिद्धेति द्वीन्द्रियादेखोन्द्रियादित्वोपगमेऽपि न क्षतिरिति वाच्यम् / ज्ञानापकर्षस्येन्द्रियनियम्यतया एकेन्द्रियपर्यन्तविश्रान्तत्वेनैकेन्द्रियादिव्यवस्थायाः सिद्धान्तसिद्धायाः स्वेच्छामात्रेणान्यथा कर्तुमशक्यत्वात् / न च शरीरभेदादेव ज्ञानापकर्षभेदो न त्विन्द्रियभेदादिति वाच्यम् / ज्ञानापकर्षस्येन्द्रियापकर्षान्वयव्यतिरेकानुविधायित्वात् / किं च मनसः कालत्रयावच्छिन्नार्थग्राहिणोऽनुमानावधिज्ञानादिवद्वर्तमानार्थग्राहिश्रोत्रादिसाधारणं नेन्द्रियत्वम् / किन्तु श्रोत्रेन्द्रियादपि पटुतरज्ञानजनकत्वेन न इन्द्रियत्वमेवेति पञ्चैवेन्द्रियाणीति समीचीनः पन्थाः / द्रव्येन्द्रियभावेन्द्रिययोनिरूपणम् तानि च द्रव्यभावभेदाद्विधा, तत्र द्रव्येन्द्रियाणि निर्वृत्युपकरणभेदाद्विधा, तत्र निर्वृत्तिः संस्थानरूपा बाह्याभ्यन्तरभेदेन द्विधा, तत्र बाह्या निर्वृत्तिर्मनुष्यशशकादेर्नानारूपा, अन्तर्निवत्तिस्तूत्सेधागुला संख्येयभागप्रमितशुद्धात्मप्रदेशावच्छिन्नकदम्बपुष्पाद्याकारमांसगोलकरूपा / उपकरणं च श्रोत्राद्यन्तनिवृत्तेविषयग्रहणशक्तिः खड्गस्येव च्छेदशक्तिवेह्नरिव च दाहशक्तिः, अतिरिच्यते चेयमन्तर्निवृत्तीन्द्रियात् तत्सत्त्वेऽपि वातपित्तादिना विषयपरिच्छेदशक्तिविनाशे शब्दादिविपर्याग्रहणोपपत्तेः, न च तदुपनाहकादृष्टविशेषविनाशादेव तदुपपत्तिर्मण्यादिना वह्नयादिनिष्ठदाहशक्तेरिव वातपित्तादिनेन्द्रियनिष्ठपरिच्छेदशक्तेरेव विनाशस्वीकारौचित्यात् , अन्यथौषधपानविशेषेण तदननुग्रहप्रसङ्गात् तेन विहितनिषिद्धान्येनादृष्टान्तरोत्पादनायोगात् , इन्द्रियनिष्ठपरिच्छेदकशक्तेथोत्तेजकेन वह्निनिष्ठदाहशक्तेरिव तेनोत्पादनस्य वक्तुं युक्तत्वात् / किं चैवमदृष्टोपग्रहस्य नियामकत्वे इन्द्रियस्यैवासिद्धिप्रसङ्गस्तदुपगृहीतकर्णशष्कुल्यादिनैव तत्कार्यसम्भवात् , एतेन कर्णशष्कुल्यवच्छिन्नाकाशमेव श्रोत्रमदृष्टविशेषोपग्रहाच्च नातिप्रसङ्ग इत्यादि नैयायिकमतमपास्तम् / ___ भावेन्द्रियाण्यपि लब्ध्युपयोगमेदाद्विधा / तत्र लब्धिस्तदावरणकर्मक्षयोपशमः / प्रमाणं च तत्र तुल्येऽपि द्रव्येन्द्रियविषयसम्बन्धे पुरुषभेदेन बहुबहु विधादिविषयपरिच्छेद भेद एव / तत्सन्निधानादेव चात्मा द्रव्येन्द्रियनिवृत्तिं प्रति व्याप्रियत इति / उपयोगश्च लब्धिनिमित्तो मनः साचिव्यादात्मनोऽर्थग्रहणं प्रति व्यापारः / प्रमाणं च तत्र सुषुप्तौ ज्ञानाभावान्यथानुपपत्तिः / संयोगादौ क्रियाया इवार्थ ग्रहण आत्मनोऽप्याभिमुख्यस्य नियामकस्य स्वीकारातस्यैवोपयोगरूपत्वात् सुषुप्तौ तदभावा देव ज्ञानानुत्पादसम्भवात् , व्यासङ्गोऽप्यर्थान्तरानुपयोगदेव सम्भवति. न त्विन्द्रियान्तरेणाणोर्मनसोऽसम्बन्धात् , अन्यथा रूपादिकं पश्यतो जातायां गीतादिबुभुत्सायां सद्य एव गीतादिश्रवणानुपपत्ते बुभुत्सया मनोवहनाडी प्रयत्नद्वारा श्रोत्रमनो