________________ वादमाला [2] दुरत्वादिति, मैवम् / आत्मनो विशेषगुणोपधानेनैव भानेन तदा विशेषगुणाभावेन तत्प्रत्यक्षाभावात्तत्तद्गुणानां विषयतया तद्भानहेतुत्वात् / सविषयकप्रकारकात्ममानसत्वस्यैव मनोयोगादिकार्यतावच्छेदकत्वाद्वा / यदि चैवमतिगौरवं तदा चर्ममनोयोग एव जन्यज्ञानमात्रहेतुरस्तु / त्वङ्मनोयोगस्य रासनादिकालेऽनुपगमात् चर्मत्वम् तैजसचर्मत्वादिसाधारणं न जातिरिति चेत्, तथाऽपि मानसत्वावच्छिन्न एव त्वङ्मनोयोगो हेतुर्नतु जन्यज्ञानत्वावच्छिन्ने / न च त्वाचत्वावच्छिन्नं प्रति पृथक्कारणत्वे गौरवं प्रामाणिकत्वेन तस्यादोषत्वात् / अन्यथा रासनाद्युत्पत्तिकाले ज्ञानमात्रहेतोस्त्वङ्मनोयोगस्य सत्त्वे कथं न त्वाचोत्पत्तिरायुष्मतां, रसनमनोयोगादेस्त्वाचप्रतिबन्धकत्वकल्पने महागौरवात्, त्वाचत्वावच्छिन्ने विजातीयत्वङ्मनोयोगत्वेन पृथकारणत्वावश्यकत्वात् / न च त्वाचत्वावच्छिन्नं प्रति त्वाचेतरसामग्रीत्वेनैव प्रतिबन्धकत्वादनतिप्रसङ्गस्त्वाचेतरसामग्या विशिष्य विश्रामात् / न च रसनाद्यवच्छेदेन त्वचो विषयेण समं विलक्षणसंयोगस्यैवानुपगमात्त्वङ्मनोयोगस्य त्वाचं प्रति विशिष्य हेतुत्वाकल्पनमिति वाच्यम् / रसनाद्यवच्छेदेनापि शीतलजलस्पर्शानुभवादीर्घशष्कुल्यादौ रासनकालेऽपि त्वग्विषयसम्बन्धाबाधाच्च / अस्तु वा परात्मादेः पराप्रत्यक्षत्वाय विजातीयात्ममनोयोगत्वेनात्ममानसे हेतुताया अवश्यवक्तव्यत्वात्तदेव वैजात्यं जन्यज्ञानसामान्यासमवायिकारणतावच्छेदकमिति तादृशसंयोगाभावादेव सुषुप्तौ ज्ञानानुत्पादः; तदा तादृशसंयोगे मनाभावात् / अदृष्टादेव श्वासप्रश्वासादिसन्तानोपपत्तौ जोवनयत्नानुपगमात्तदनुरोधेनापि तदकल्पनात् / न च यत्र त्वविक्रयया त्वङ्मनःसंयोगनाशे पुरीतक्रियया पुरीतन्मनः संयोगरूपा सुषुप्तिः सम्पद्यते तत्र प्राक्तनात्ममनोयोगोऽस्तीति वाच्यम् / सर्वत्र मनःक्रिययैव सुषुप्तिस्वीकारान्नाडीतदवयवादिक्रियाकल्पने गौरवादिति / त्वमनोयोगस्य ज्ञानमात्रहेतुत्वपक्षे इन्द्रियनिर्वचनम् त्वङ्मनोयोगस्य ज्ञानमात्रहेतुत्वेऽपि ज्ञानासमानाधिकरणज्ञानकारणमनःसंयोगाश्रयत्वमिन्द्रियत्वं त्वक्त्वस्य जातित्वात्त्वङ्मनोयोग एव ज्ञानहेतुर्न तु शरीरमनोयोगः शरीरत्वस्योपाधित्वादिति शरीर नातिव्याप्तिः / यदि च समवायेन चैत्रीयमनोयोगस्य शरीरनिष्ठस्यावच्छेदकतया चैत्रीयज्ञानहेतुत्वं तदा ज्ञानसमानाधिकरणज्ञानकारणसंयोगानाश्रयवृत्तिमनोवृत्तिज्ञानकरणसंयोगाश्रयत्वं तत् / आत्मशरीरयोरिणाय प्राथमिकं वृत्त्यन्तं संयोगविशेषणम्, शरीरात्ममनसां ज्ञानसमानाधिकरणज्ञानकरणसंयोगाश्रयत्वात्, शरीरमनोयोगात्ममनोयोगयोर्न तदाश्रयवृत्तित्वमित्यात्मशरीरयोगुंदासः / शरीरतदवयवनाड्यादिनात्मसंयोग एव चेष्टावदात्मसंयोगत्वेन हेतुरतो न स्वप्नवहूनाडीमनोयोगमादाय तन्नाड्यामतिव्याप्तिः / चक्षुर्घटादिसंयोगमादाय घटादावतिव्याप्तेर्वारणाय मनोवृत्तीति / मनो घटसंयोगादिकमादायातिव्याप्तिवारणार्थ ज्ञानकारणेति / शरीरावच्छेदेन प्राणमनः संयोगत्वेन न हेतुत्वं किं तु शरीरप्राण