________________ वादमाला [2] यजनित एवेति न दोषः / पाण्यादीनां तु तच्छेदेऽपि तत्कार्यस्यादानादिलक्षणस्य दशनादिनापि निवर्त्यमानत्वान्नेन्द्रियत्वम् / मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तः करणत्वमिष्यत एवेति सम्प्रदायः / - नन्वेवं ज्ञानं प्रति प्रकृष्टकारणत्वमिन्द्रियत्वमिति पर्यवसन्नम् / अत्र च कः प्रकर्षः / व्यापारवत्वमिति चेन्नात्मनोऽप्यात्ममनोयोगरूपव्यापारसत्वात् / अविलम्बेन क्रियोत्पादकत्वमिति चेत् , न, चक्षुरादेरपि व्यासङ्गदशायां ज्ञानानुत्पत्तेः / ज्ञानत्वव्याप्यधर्मावच्छिन्नकारणत्वमिति चेन्न, स्मृतित्वावच्छिन्नहेतावनुभवेऽतिव्याप्तेरनुभवत्वव्याप्यधर्मावछिन्नहेतुत्वमिति चेत्, न, अनुमितित्वाद्यवच्छिन्नहेतावनुमानादावतिव्याप्तेः, प्रत्यक्षत्वव्याप्यधर्मावच्छिन्नहेतुत्वमिति चेन्नान्धकारेतरविषयकाञ्जनाद्यसंस्कृतनयननरचाक्षुषसाक्षात्कारत्वावच्छिन्नहेतावालोकेऽति व्याप्तेरिति चेदत्र ब्रमः / मतिज्ञानप्रत्यक्षत्वसाक्षाद्व्याप्यधर्मावच्छिन्नहेतुत्वमेवेन्द्रियलक्षणम् / अस्ति हि चक्षुरादीनां चक्षुराद्यवग्रहादिसाधारणमतिज्ञानप्रत्यक्षत्वसाक्षाव्याप्यचाक्षुषत्वाद्यवच्छिन्नहेतुत्वम् / मेनसस्तु यद्यपि मनोऽवग्रहादिसाधारणमतिज्ञानप्रत्यक्षत्वसाक्षाद्व्याप्यमानसत्वावच्छिन्नं. प्रति हेतुत्वमस्ति तथापि ब्यक्तानुमानादिसाधारणदीर्घकालिकसंज्ञात्वावच्छिन्नं प्रत्यपि हेतुत्वात्तत्र नो इन्द्रियत्वप्रवादः / तथा च स्पर्शनादोनि पञ्चेन्द्रियाणीति जैनी परिभाषा / इन्द्रियलक्षणम् नैयायिकास्तु मनः सहितानि तानि षडिन्द्रियाण्याहुरिन्द्रियत्वं च तेषां स्मृत्यजनकज्ञानजनकमनःसंयोगाश्रयत्वम् / स्मृत्यजनकत्वमत्र स्मृतिस्वरूपायोग्यत्वम् / मनःसंयोगश्च मनोवृत्तिः संयोगो नातः स्मृत्यनुपधायकप्रत्यक्षाद्युपधायकमनोयोगवत्यात्मादावतिप्रसङ्गः / न च मनः प्रतियोगिकसंयोगविरहिणि मनस्यव्याप्तिः / स्वमनोयोगस्य शानमात्र प्रति हेतुताया निरासः ननु त्वगिन्द्रियाव्याप्तिः / त्वङ्मनोयोगस्य जन्यज्ञानमात्रहेतुत्वेन स्मृतिस्वरूपयोग्यत्वात् / अन्यथा सुषुप्तिकाले ज्ञानोत्पत्त्यापत्तेः / अथ तत्काले चाक्षुषादिज्ञानानुत्पादश्चक्षुरादेविषयेण मनसा च संयोगाभावादनुमित्या द्यनुत्पत्तिश्च व्याप्तिज्ञानाद्यभावात्, न च सुषुप्त्यनुकूलमनः क्रिययात्ममनः संयोगनाशकाले उत्पन्नेन परामर्शेन सुषुप्तिसमकालोत्पत्तिक मनोयोगसहकृतेन सुषुप्तिद्वितीयक्षणेऽनुमितिरुत्पद्यतामिति वाच्यम् असमवायिनः कार्यसहभावेन हेतुत्वान्मनोयोग'नाशकाले परामर्शोत्पादासम्भवात्, अन्यथा सुषुप्तिकाले प्राक्तनत्वङ्मनोयोगात्तवापि मसृणतूलिकादिसन्निकर्षेण त्वाचप्रसङ्गात् / तत्सामग्रीभूतव्याप्तिस्मृत्यादेः फलैककल्प्यत्वेन तत्काले परामर्शोत्पत्तौ मानाभावाद्वेति चेत्, न, तत्काले आत्मादिमानसोत्पत्तेविना त्वङ्मनोयोगहेतुत्वं " वा. 13