________________ 96] वादमाला [2] न, दृष्टान्ताप्रसिद्धः / किञ्च-विशेषे समवायेन तदवृत्तिधर्ममन्तरेणापि तद[]वृत्तिधर्ममात्रसत्त्वेन यथा तव्यावृत्तिस्तथा प्रकृतेऽपीत्यप्रयोजकत्वादुक्तव्याप्तिरेवासिद्धा; यो यद्व्यावृत्तः स तदवृत्तिधर्मवानित्येव व्याप्तेः / किञ्च नित्यद्रव्यव्यावृत्तये विशेषपदार्थस्वीकारे तद्गतरूपादिव्यावृत्तिः कुतः, स्वाश्रय समवेतत्वसम्बन्धेन तत्रापि विशेष एव व्यावर्तक इति चेत् तर्हि रूपादिगत एवासौ किं न कल्प्यते, तस्यापि स्वाश्रयसमवायित्वसम्बन्धेन नित्यद्रव्यव्यावर्तकत्वसम्भवात् / रूपादीनां बहुत्वात्तत्र विशेषपदार्थकल्पने गौरवं नित्यद्रव्यव्यक्ते. चैकत्वात्तत्र तत्कल्पने लाघवमिति चेत्, न, तथापि प्रत्येकं विनिगमकाभावात् / रूपादिनिष्ठत्वे तस्य सजातीयघटद्वयपर्यन्तः परम्परासम्बन्धो बहुघटितः स्यादिति चेत्, किं ततो, नानारूपवदवयवारब्धावयविनो नीरूपत्वमते तत्प्रत्यक्षत्वाय परमाणुगतरूपस्य तद्वृत्तितानियामकसम्बन्धविशेषवदिहापि तादृशसम्बन्धविशेषकल्पने तव रसनाया अव्याहतप्रसरत्वात् / योगिनो विशेषमीक्षन्त इति चेत् , तर्हि त एव प्रष्टव्याः कि ते विशेषमति रिक्तमीक्षन्तेऽनतिरिक्तं वेति श्रद्धामात्रगम्य एवायं विशेषपदार्थः / अस्माकं तु विशेषपदार्थो वस्तुन एव व्यावृत्त्यशः / घटादिगतानां पटादिव्यावर्तकधर्माणां पटादिव्यावृत्तीनां च कथञ्चिद् घटादिरूपत्वात् / पटादिव्यावृत्तीनां स्ववृत्तित्वांशेऽभेदस्य नियामकस्य क्लप्तत्वेन घटादिवृत्तित्वांशेऽपि तस्यैव नियामकत्वौचित्यात् / अभेदविशेषणतयोईयोस्तन्नियामकत्वे गौरवात् / न चैवं शकटादावपि पटव्यावृत्त्यात्मनो घटस्योपलम्भापत्तिस्तत्त्वेन तदुपलम्भस्येष्टत्वाद् , घटत्वेन घटोपलम्भे तु घटत्वावच्छिन्नस्य नयनाभिमुख्यं नियामकमिति न दोषः / अस्तु वाऽनन्तपर्यायात्मकत्वाद्वस्तुनो घटत्वावच्छिन्नायास्तस्या घटात्मकत्वेऽपि तदभावावच्छिन्नायास्तस्या अतदात्मकत्वम् / अनेकान्ताविरोधात् / प्रतीयते खल्वेकस्यामङगुल्यामग्रावछिन्नापरांगुलिसंयोगवत्तादात्म्येऽपि मूलावछिन्न तद्वद्भेदः / न चैवं देशस्कन्धरूपान्तराद्यवछिन्नभेदाभेदादिघटितबहुधर्मसमावेशात् प्रतीतिनियमानुपपत्तिः / व्यवहाराद्यभ्यासवशाद् यथाक्षयोपशमभेदं तन्नियमोपपत्तेरिति दिग् // 3 // वागादीनामिन्द्रियत्वस्य प्रत्याख्यानम् स्पर्शनरसनघ्राणचक्षुःश्रोत्रवाक्पाणिपादपायूपस्थमनो लक्षणान्येकादशेन्द्रियाणीति सांख्याः / तन्न, वागादीनामिन्द्रियत्वे प्रमाणाभावात् / न च तेषामपि वचनादानविहरणोत्सर्गानन्दसंकल्पव्यापारकाणामात्मनः क्रियाजनने करणत्वेनोपकारकत्वात् स्पर्शनादिवदिन्द्रियत्वमव्याहतमिति वाच्यम् / आत्मनो विज्ञानोत्पत्तौ प्रकृष्टोपकारकस्यैवेन्द्रियत्वात् / यां काञ्चनक्रियामुपादाय करणत्वेनेन्द्रियत्वाभ्युपगमे च भ्रदरादेरप्युत्क्षेपादिकरणत्वेनेन्द्रियत्वप्रसङ्गात् / किं चेन्द्रियाणां स्वविषयनियतत्वान्नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्त्तमलम् / श्रोत्रादोनां चक्षुरुपलभ्यरूपावलोकनाद्यसमर्थत्वात् / यस्तु रसाधुपलम्भे शीतत्पर्शादेरप्युपलम्भः / स सर्वव्यापित्वात् स्पर्शनेन्द्रि