________________ वादमाला [2] कारात्ततीयाभावादेः प्रथमाभावादिरुपत्वेन नानवस्थेति नवीनसिद्धान्तात् / सामान्यविशेषत्वं च न सामान्यत्वे सति विशेषत्वं किं तु सत्ताव्याप्यत्वे सति तद्व्याप्यव्यापकत्वमिति सामान्यत्वविशेष्यत्वयोविरोध एवेति चेत्, न, तयोः प्रत्यक्षेणैवाविरोधसिद्धेः घटत्वाभावाभावादेघर्टत्वाद्यतिरितत्वे मानाभावात् , अभिलापमत्रभेदेनार्थभेदेऽतिप्रसङ्गाद, घटत्वाभावादिज्ञाने घटत्वज्ञानत्वादिना पृथक् प्रतिबन्धकत्वकल्पने गौरवाच्चेति / न च घटत्वस्याघटव्यावृत्तित्वे घटोऽयमिति ज्ञानकाले नाघटोयमिति ज्ञानापत्तिः अघटव्यावृत्तित्वस्य प्रतियोगिज्ञानव्यङ्ग्यत्वात्, न चातव्यवृत्यात्मकविशेषरूपत्वं सामान्येऽस्त्वनुगतत्वाव्याघातात्तत्तद्व्यक्तिविशेषात्मकत्वं तु न सम्भवत्यनुगतत्वव्याघातादिति वाच्यं, सामान्यविशेषत्वक्लुप्तद्वित्वेनेव तत्तद्व्यक्त्यात्मकत्वकृतानेकत्वेनाप्येकत्वस्याविरोधात् वस्तुन एकानेकस्वभावत्वस्य प्रामाणिकत्वात् / केवलं घटत्वातव्यावृत्त्योरनवच्छिन्न एवाभेदः घटत्वे तत्तद्व्यक्त्यभेदस्तु तत्तद्व्यक्तित्वाद्यवच्छेदेनैव तद्भेदस्तु स्वरूपत एवेति कथञ्चिदनुगमव्यावृत्तिमत्सामान्यम् / स्वरूपतः सामान्यस्यैकत्वाच्च सामान्यमेकमिति मुख्यो व्यवहारः / सामान्यमनेकमिति व्यवहारस्त्वनेकत्वावच्छेदकधर्मवाचकपदसममिव्याहारमपेक्षते / युगपद्विरुद्धधर्मप्रतीत्यो चावच्छेदकभेदविषयत्वं नियतं यथा पूर्वमयं घटः श्यामो न त्विदानीम् / मूले वृक्षः कपिसंयोगी न तु शाखायामिति / ततः स्या सामान्यमेकं स्यादनेकमित्यनेकान्त एव कान्तः / 2 / / विशेषस्य पदार्थान्तरतायाः निरास: विशेषो नित्यो नित्यद्रव्यवृत्तिः पदार्थान्तरमिति नैयायिकाः तदसत्तत्र प्रमाणाभावात्, न चात्यन्तसजातीयानां नित्यद्रव्याणां परस्परभेदग्रहो न विशेषं विनेति तत् सिद्धिर्योगिनां तद्भेदग्रहे व्यावर्तकधर्मदर्शनस्याहेतुत्वात् / न च समवायित्वे सति समवायि यद्व्यक्तेर्यव्यावृत्तं; तत्तदसमवेतसमवेतशून्यधर्मसमवायीति व्याप्तेर्घटपटाववधारणात् सजातीयनित्यद्रव्यद्वये परस्परासमवेतसमवेतशून्यधर्मसिद्धावद्विशेषसिद्धिः / अत्र द्रव्यत्वादिभिः सिद्धसाधनवारणाय तदसमवेतेति / एकत्वादिभिस्तद्वारणाय समवेतशून्येति / अभावव्यक्तिभिस्तद्वारणाय समवायीति / अभावे व्यभिचारवारणाय हेतौ समवायित्वे सतीति / घटादावभावव्यावृत्तिसत्त्वेनाभावसमवेतत्वाप्रसिद्ध्या व्याप्यत्वासिद्धिः स्यादिति समवायीति / नोपादेयमेव वा तत्; साध्ये तदसमवेतत्वं परित्यज्य स्वासमवायितत्कत्वस्य निवेशनीयत्वादिति चेत् , न, सजातीयघटद्वये व्यभिचारात् स्वाश्रयसमवेतसमवेतत्वादिघटितपरम्परासम्बन्धेन साध्यत्वे विशेषमादाय तत्रापि साध्यसत्त्वाद्यभिचारवारणे च पक्षे बाधप्रसङ्गात् / स्वसमवायित्वस्वाश्रयसमवेतत्वादिघटितपरम्परासम्बन्धान्यतरसम्बन्धेन साध्यत्वेऽपि नित्यद्रव्यवृत्तिरूपादौ व्यभिचारात् / स्वाश्रयसमवेतत्वस्यापि सजातीयद्यणुकसाधारणस्यान्यतरमध्ये निवेशान्न दोष इति चेत्, न, ईदृशसम्बन्धेन साध्यस्य व्याप्तिग्रहाभावात् / समवायित्वे सतीत्यपहाय नित्यद्रव्यत्वे सतीति निवेशने न दोष इति चेत,