________________ वादनमाला [2] रमुपपादयतः सामान्यापलापिनश्चार्वाकस्यापि मतमपास्तम् / सामान्याभावे विकल्पे सम्भावनायां वा संवादप्रामाण्ययोरवगमानुपपत्तेः / अथ विकल्पेऽध्यक्षमूलकत्वमेव संवादः; सम्भावनायां त्वध्यक्षमूलक - विकल्पविषयविषयकत्वमेव, तस्य च यद्यपि न वास्तवप्रामाण्येन सहचारस्तथापि ततः पराभिप्रेतप्रामाण्याभिमानाव्यवहारोपपत्तिरिति वाच्यम् / गोदर्शनोत्तरभावितुरगविकल्पस्याप्यध्यक्षमूलकत्वेन प्रामाण्यप्रसङ्गात्। अथ तत्र गोदर्शने गोरूपस्य तुरगत्वासंसर्गस्य ग्रहाद् दृश्यागृहोतासंसर्गकविकल्प्यविषयत्वरूपं प्रामाण्यं नास्तीति चेत्, न, गोत्वस्यालोकत्वे तदसंसर्गस्य गोदर्शनेनापि ग्रहात् तत्पृष्ठ भाविगोविकल्पस्यप्याप्रामाण्यापत्तेः, दृश्यवृत्तिरसंसर्गत्वप्रकारकग्रहाभावस्त्वसं सर्गग्रहकालेऽप्यस्ति दृश्यस्य विकल्पाविषयत्वात् / यत्तु विकल्प्यावच्छिन्नत्वेन दृश्यं विकल्पेऽपि भासते / तत्र च कल्पितसामान्यसंसर्गवति कल्पितसामान्यप्रकारकत्वमेवोपचरितं विकल्पस्य प्रामाण्यमबाधम् / मुख्य सन्मात्रविषय वलक्षणं तु निर्विकल्पक एवेति, तत्तुमिथ्यैव, यथार्थप्रवृत्त्यादिनिर्वाहार्थ विकल्पे परमार्थ यथार्थव्यवस्थितः / स्वेच्छामात्रकृतायाः परिभाषाया अन्याय्यत्वात् / तस्मात् सामान्योल्लेखी विकल्प एव प्रमाणत्वेनानुभूयमानः सामान्यस्य वस्तुत्वसाधक इत्यधिकं *लतायाम् / तदेवं नैयायिकसौगतमतसामान्यानुपपत्त्या वस्तुनः समानपरिणाम एव सामान्यमित्याहतमतमेवादरणीयं निपुणबुद्धिभिः / विशेषात्मना व्यावृत्तस्यैव तस्य स्वरूपेणानुवृत्तस्योपलम्भात् / सत्तात्मना ह्यनुवृत्ता हि सत्ता घटाद्यवच्छिना तत्तदेशकालादिव्यावृत्तैवोपलभ्यते, इह देशे घटः , सन्नान्यत्रेदानी घटः सन्नपूर्वेद्युरिति देशकालादिव्यावृत्तसत्ताप्रत्ययादेव सत्तासामान्यं नास्तीत्यस्तु दीधितिकृन्मतमेव सम्यगिति चेत् , न, एवं सति घटत्वादिसामान्यस्याप्यनुगतस्यापलापापत्तेः / अस्यां मृदि घटत्वं नान्यस्यामिदानीं मृदि घटत्वं नान्यदेति तस्यापि देशकालादिव्यावृत्तस्यैवानुभावात् / कार्यतावच्छेदकत्वादिना घटत्वादेरेकस्य सिद्धिं पुरस्कृत्य तन्नानात्वप्रत्ययापलापे च घटाभावप्रकारकज्ञानप्रतिबद्ध्यतावच्छेदकत्वादिनाघटादेरप्येकस्य सिद्धिं पुरस्कृत्य तन्नानात्वप्रत्ययस्याप्यपलापप्रसङ्गात् / घटत्वविशिष्टघटादेर्दण्डदिकार्यता घटादिविशिष्टमृदादेवेति विनिगन्तुमशक्यत्वात् / व्यावृत्तत्त्वे कथमनुवृत्तत्वं सामान्यस्येति तु द्रव्यत्वादिकं सामान्यविशेषमभ्युपगच्छता न वक्तुं शक्यम् / यथा हि द्रव्यत्वादिकमद्रव्यादिव्यावृत्तिरूपं सदपि परेषां [परान् ?] प्रतिभावतां न जहाति तथा कथञ्चिद्यक्तिरूपं सदपि सामान्यमस्मन्मते सामान्यरूपता न हास्यतीति / सामान्य-विशेषयोविरोधस्यापाकरणम् अथात्यन्ताभावात्यन्ताभावः प्रतियोग्येवान्योन्याभावात्यन्ताभावस्तु प्रतियोगितावच्छेदकमिति प्राचीनप्रवादो न युक्तोऽभावत्वप्रतीतेरतिरिक्ताभावविषयत्वादभावाभावादेरतिरिक्तत्वस्वी* 'लता' इत्यनेन 'शास्त्रवार्तासमुच्चय'ग्रन्थस्य स्वकृत स्यादवादकल्पलता' टीका बोध्या / /