________________ [93 वादमाला [2] वा! नाद्योऽन्यतरपर्यवसानप्रसङ्गात् , नापि द्वितीय उपचरितेन दृश्यविकल्प्यैक्येन वस्तूपदर्शकत्वायोगात् / ___ किञ्च-तदेकत्वाध्यवसायो दर्शनेन विकल्पेन ज्ञानान्तरेण वा भवेत् ? नाद्यः पक्षो दर्शनस्य विकल्प्याविषयत्वात् , न द्वितीयो विकल्पस्य दृश्याविषयत्वात् , न तृतीयो ज्ञानान्तरस्य निर्विकल्पसविकल्पकविकल्पयुगलानतिक्रमेण दृश्यविकल्प्यवि श्यद्वयविरोधात् , न च तदुभयागोचरं ज्ञानं तदुभयैक्यमाकलयितुमलमिति / अथ दृश्यागृहीतासंसर्गकविकल्प्यविषयत्वमेव विकल्पस्य दृश्यविकल्प्यैकीकरणं तेनैव सामान्यस्य बहिरर्थनिष्ठतोल्लेखः / न चैवमस्तुभूनसामान्यविषयस्य व्यवसायस्य वस्त्वनुपदर्शकत्वातज्जनकत्वेन दनस्य प्रामाण्यं दुर्घटमिति वाच्यम् / परमार्थतो वस्त्वनुपदर्शकमपि ब्यवसायं द्वारोकृत्यार्थप्रापकत्वेन दर्शने व्यावहारिकप्रमाण्यस्यैवोपगमात् “यत्रैव जनयेदेनाम् / तत्रैवास्य प्रमाणते"ति ग्रन्थस्य व्यावहारिकप्रामाण्यप्रयोजकरूपप्रदर्शनपरतयैव व्यवस्थितत्वात् / क्षणक्षयस्वर्गप्रापणशक्त्यादावपि दर्शनस्यानुरूपविकल्पानुत्पादनेन व्यवहारत एव न प्रामाण्यं परमार्थतस्तु क्षणक्षयादेरपि वस्तुस्वरूपत्वात्तत्राऽपि सन्मात्रविषयत्वरूपं प्रामाण्यं स्वग्राह्यमेवेति न स्वोत्पत्तौ स्वज्ञप्तौ वा विकल्पमपेक्षते / न चासद्विषयत्वाभावव्याप्य सद्विषयत्वादिना सन्मात्रविषयत्वादि ग्राह्यमिति कथं तत्र स्वग्राह्यतेति वाच्यम् / असद्विषयत्वाभावादेरपि स्वरूपानतिरेकात् , स्वरूपतः स्वग्राह्यतायास्तत्राप्यप्रत्यूहत्वात् / तत्तद्रूपेण तु विकल्पविषयतैव न चैवं तेषामसत्त्वापत्तिः / स्वरूपातिरिक्तत्वेन तदसत्त्वस्येष्टत्वात् , नहि निर्विकल्पकं सन्मात्रावलम्बनमित्यादिबुद्धीनां बौद्धाः प्रमाणत्वमुपयन्ति / तथा सत्ययं घट इत्यादिबुद्धेरपि प्रामा•ण्यापत्तेः / न चैवं ज्ञानप्रामाण्यस्य स्वतो ग्रहे प्रामाण्यसंशयानुपपत्तिनिर्विकल्पके तदसिद्धेः, तदुत्तरोत्पन्नज्ञाने च समुल्लिखितानुगताकारे प्रमाणाभावेन स्वतः प्रामाण्यग्रहायोगादेव तत्संशयोपपत्तेः, न चानुगताकारविषयत्वेनैव प्रामाण्याभावनिश्चयात्तत्संशयो दुर्घटः, तस्य तद्याप्यत्वानिश्चयदशायां सन्देहसाम्राज्यात् , संदिह्यतां वा दर्शनेऽपि विशेषानाकलनदशायामर्थपापकत्वरूपं व्यावहारिकं प्रामाण्यमिति चेत् , न, सामान्यस्यावस्तुत्वे गवादिदर्शनेऽपि गवादिविषयत्वस्य नियन्तुमशक्यत्वात् / तत्तद्यक्ति विषयत्वमेव गवादिविषयत्वमिति चेत्, तत्रापि गवादिरूपत्वं न त्वश्वादिरूपत्व. मिति नियतसामान्यसम्बन्धं विना कथं नियन्तुं शक्यं कथं वाऽवस्तुभूतसामान्यविषयत्वेऽनुमान स्यापि प्रमाणत्वं सूपपादं कथं च सामान्यस्यावस्तुत्वेऽयं गौरित्यादिविकल्पानां शशशृङ्गादिविकल्पतुल्यत्वेनाप्रमाणत्वान्नियमतः प्रवर्तकत्वम् / अध्यक्षविषयविषयकत्वरूपसंवादाभिमानेन तत्र प्रामाण्याभिमानादेव तथात्वमिति चेत् , न, क्रमिकाध्यक्षव्यक्त्योरप्येकपरमार्थसद्विषयकत्वाभावेन तत्र प्रामाण्यसहचाराज्ञानात् इत्थं चानुमानप्रमाणमप्यनभ्युपगच्छतः सर्वत्र संभावनयेव व्यवहा