________________ वादमाला [2] न्यतरप्रकाराश्रयणेऽन्यतरदोषापत्तेः, उभयासिद्धौ च वृत्तित्वविशेषाभावसमुदायेन वृत्तित्वसामान्याभावापत्तेर्वज्रलेपत्वादिति सम्मतिटीकाकृतामाशयः / ननु देशकाय॑वृत्तित्वे किञ्चित् सर्वावयवावच्छिन्नसंयुक्तत्वलक्षणे द्रव्यवृत्तित्वस्यैव विशेषौ नतु वृत्तित्वसामान्यस्येति नेयमापत्तिर्घटत इति चेत् , न, अवच्छिन्नानवच्छिन्नवृत्तित्वविशेषाभावाभ्यां तदवृत्तित्वापतेः, आयेऽव्याप्यवृत्तित्वस्य द्वितीये च प्रतिव्यक्ति भेदस्यापत्तेरित्याशयात् , अत एवैतद् घटवृत्तिघटत्वमपरघटावृत्ति एतद् घटपर्याप्तत्वादेतद्घटैकत्ववदित्यप्यापादितं 'न्यायालोके'ऽस्माभिः / किं च समानानां स्वभाव एव सामान्यं न त्वतिरिक्तम् अत एव स्वस्वातिरिक्तपदार्थेषु प्रमेयत्वस्वभावेन प्रमेयमिति बुद्धिवद्भावत्वस्वभावेनैव सदिति धीः। सत्सत्तयोर्विलक्षणसम्बन्धावगाहिनी सत्ताधीः पुनरसिद्धा / यथा च भावत्वस्य नियताऽनुगतव्यावृत्तव्यपदेशनियामकत्वं तथा सिद्धान्तपक्षे निरूपयिष्यामः / द्रव्यजन्यतावच्छेदकतया सिद्धं सत्त्वं गंगनादौ द्रव्यत्वादिना सांकर्यभियैव स्वीक्रियते नतु सामान्यादी मानाभावात्, अतस्तत्रैकार्थसमवायेनैव सत्ताधीरिति पदार्थमालालिखनं तु न ज्यायः / अवच्छिन्नसमवेतत्वेनैव द्रव्यजन्यतावच्छेदकत्वसम्भवादुपाधिसांकर्यस्येव जातिसांकर्यस्याप्यदोषत्वात् ; परस्पराभावसमानाधिकरणजातित्वेन परस्पराभावव्याप्यत्वे मानाभावाच्चेति दिग / सौगतानामन्यथावृत्तिरूपस्य सामान्यस्य निराकरणम् ___ सौगतास्तु संगिरन्ते / पदार्थान्तरभूतं सामान्यं तावदार्हतैरेव निराकृतम् / अत्यन्तविलक्षण स्वलक्षणस्वरूपं च विरोधादेव तन्न सम्भवति व्यक्त्यन्तरात्मजात्यात्मताया व्यक्त्यन्तरानुगमे स्वलक्षणत्वयाघातात् , ततो गौगैरित्याद्यनुगताकारप्रतोतेरन्यव्यावृत्तिमात्रेणैव व्यक्तिषु प्रसिद्धेरप्रामाणिक एव सामान्यस्वीकार इति / तदप्यसत् / अन्यव्यावृत्तेर्बहिर्गवादिव्यक्तिवृत्तित्वे सामान्यरूपताया दुर्निवारत्वात् , सकलव्यक्तिगतस्यानुगतस्य रूपस्यास्मन्मते भावाभावरूपत्वात् , आन्तरत्वे तु तस्या बहिराभिमुख्येनोल्ले खो न स्यात् / नान्तर्बहिर्वा सेति तु स्वाभिप्रायमात्रं तादृश्या स्तस्या अलीकत्वेन तथाभूतप्रत्ययजनकत्वायोगात् / अनादिवासनानिर्मित एवायमिति चेत् ; तहिं तत्र कथं बाह्यार्थविशेषापेक्षा ! अथ दृष्ट एवार्थे वासना सामान्य विकल्पजननी दर्शन एव च बाह्यार्थविशेषापेक्षा नतु विकल्पेक्षा; तच्च स्वविषयसामान्यव्यवसायिविकल्पोत्पादनद्वारा वस्तूपदर्शयदर्थप्रापकं सत् प्रमाणं स्यादित्यस्माकं प्रणालीति चेत् , न, अपोहरूपस्य सामान्यस्यावस्तुत्वे तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् , संशयविपर्ययकारणदर्शनवत् / ... अथ दृश्यविकल्प्ययोरेकीकरणाद्वस्तूपदर्शक एव विकल्पोऽतः एव विकल्पितस्य सामान्यस्य बहिराभिमुख्येनोल्लेख इति चेत् , किमिदमेकीकरणम् / एकरूपतापादनमेकत्वाध्यवसायो