________________ वादमाला [2] न स्याद् , असत्त्वात् ? अन्तरानुपलम्भस्तूभयत्र तुल्यः / न च घटादिव्यक्तीनां घटत्वादिव्यञ्जकत्वादन्यत्रानुपलम्भः / तासामेव तदभिव्यक्तिहेतुत्वे तत्कल्पनानर्थक्यप्रसङ्गात् / कार्यासहभावेन सन्निकर्षस्य हेतुत्वे घटनाशकाले घटचक्षुः संयोगसत्त्वात्तदुत्तरं घटप्रत्यक्षवारणाय लौकिकविषयतया घटप्रत्यक्षे तादात्म्येन घटस्य हेतुत्वेन त्वन्मतेऽपि तस्य घटत्वाभिव्यञ्जकत्वानुपपत्तेश्च / न च तादात्म्यसमवेतत्वान्यतरसम्बन्धेनैव तद्धेतुता सत्येवाश्रये रूपादिनाशकाले रूपादिप्रत्यक्षवारणाय रूपादीनां पृथक्कारणत्वावश्यकत्वे तथा हेतुत्वे मानाभावात् / एवमपि घटे पटत्वप्रत्यक्षापत्तेरनुद्वाराच्च / इत्थं च घटतद्वृत्तिजात्यन्यतरप्रत्यक्षे तादात्म्यानवच्छिन्न समवेतत्वान्यतरसम्बन्धेन घटहेतुत्वेऽपि न निस्तारः / न च घटत्वादिसन्निकर्षे घटादिविषयान्तर्भाव एव तद्व्यंजकत्वं द्रव्यसमवेतचाक्षुषत्वावच्छिन्ने चक्षुः संयुक्तसमवेतत्वत्वेन सामान्यत एव प्रत्यासत्तित्वाद् घटाद्यन्तर्भावेण विशिष्य नानासन्निकर्षहेतुत्वकल्पने महागौरवात् / द्वितीयपक्षेऽपि चोत्पद्यमानव्यक्तौ सामान्यस्य व्यक्त्या सहैवोत्पादे व्यक्त्यन्तराद्वा समागते स्वीक्रियमाणे तस्यानित्यत्वक्रियावत्त्वव्यक्त्यन्तरनिःसामान्यत्वसांशत्वाद्यापत्तिरिति प्रत्याख्यातम् / घटादिस्वरूपाया एव घटत्वाद्याधारतायाः स्वीकारेण तस्य व्यक्तिसर्वगतत्वव्यवस्थानादिति चेत् , न, घटादिस्वरूपाया घटत्वाद्याधारताया भूतलघटादिवृत्तित्वावृत्तित्वाभ्यां तेषु तत्प्रती त्यप्रतीतिप्रसङ्गात् / घटादिस्वरूपमप्याधारतात्वेन घटादिवृत्त्येवेति न दोष इति चेत् , न, आधारता त्वानिरुक्तेः, एकत्र स्ववृत्तित्वस्वावृत्तित्वयोः शबलवस्त्वभ्युपगमं विनाऽसम्भवात् / अत एव घटत्वसमवाये घटपटाद्याश्रयभेदेन वृत्तिनियामकत्वानियामकत्वभेदोऽपि दुरुपपादः / / .. अथाधारता नाधाररूपा नाप्यतिरिक्ता किन्तु कुण्डादौ बदरादेबंदरादिप्रतियोगिकत्वविशिष्टसंयोगरूपैव, घटादौ च घटत्वादेः समवायरूपैव नवीनैः समवायनानात्वाभ्युपगमे दोषाभावादिति चेत् , न, तथापि पीतघटे नीलत्वविशिष्टघटत्ववत्ताधीप्रसङ्गात् / विशिष्टसमवायस्याप्यतिरिक्तत्वान्न दोष इति चेत् न, तथा सति विशिष्टस्यैवातिरिक्तत्वकल्पनौचित्यात् , अत एव नीलत्वविशिष्टघटत्वं न पीतघटवृत्तीति प्रत्ययस्तत्तद्वृत्तीत्यप्रत्ययश्च सर्वसिद्धः / इत्थं च प्रतिव्यक्ति विशिष्टरूपेण भिन्नं शुद्ध रूपेण चाभिन्न सामान्यमनुभूयत इति कथं सर्वथैकं सामान्यम् विशिष्टाविशिष्टयोर्भेद एवेति सार्वभौममतं तु भेदाभेदे निराकरिष्यामः / अतिरिक्तं सामान्यं, व्यक्तिष्वेकदेशेन समवेयात् कात्स्न्येन वा ? आधे सावयवत्वप्रसङ्गोऽन्त्ये च प्रतिव्यक्ति नानात्वापत्तिः, न च व्यक्तिवृत्तित्वं सामान्यस्योपगम्यत एव देशकाय॑योस्त्वनुपगमादापादकाभाव इति वाच्यम् उक्तान्यतरप्रकारव्यतिरेकेणान्यत्र वृत्त्यदर्शनात् / अत्रा * अनया विधया सामान्यस्य प्रत्याख्यानं क्रियते इत्यर्थः /