________________ वादमाला [2] साधारणधो लक्षणमित्यर्थस्याकरे व्यवस्थितत्वात् , निरुक्तासाधारणधर्मस्याव्याप्तावृत्तित्वात् दण्डादेस्तु विशेषणत्वमात्रेणैव लक्षणत्वाभिधानात् , इत्थमेव भाष्योक्तपूर्वपदव्यभिचार्यादिलक्षणव्यवस्थोपत्तेः / परस्परव्यतिकरे सतीति विशेषणमहिम्ना रूपान्तरेण स्वेतरभेदाभावसमावेशाय सिद्धस्य स्वेतरभेदवृत्त्यवच्छेदकधर्मस्य लक्षणत्वलाभेऽपि दण्डादेरतिप्रसक्तस्यातथात्वात् / कि चैवं केवलान्वयिलक्षणमपि न सुष्टु घटत इति प्रसिद्धनीत्यैव सर्वमवदातम् // 1 // इति वस्तुलक्षणवादः समाप्तः // द्रव्यगुणकर्मवृत्तरत्यन्तभिन्नसमन्यस्य निरासः द्रव्यगुणकर्मवृत्तिपदार्थान्तरमेव सामान्यमिति नैयायिकाः / अपोहरूपमेव तदिति सौगताः / वस्तु एव समानः परिणामस्तदिति परमपुरुषवचनानुसारिणः / तत्र नैयायिकास्तावदित्थं प्रमाणयन्ति, सर्वत्रानुगताकारप्रतीतोनामेकविषयत्वौचित्यात् सत्सदिति द्रव्यं द्रव्यमिति घटोऽयं घदोऽयमित्यादि प्रतीतिभिः सत्त्वद्रव्यत्वघटत्वादिसामान्यसिद्धिः, तच्च सामान्यं द्रव्यादित्रयवृत्त्येव / सामान्यस्य सामान्यवृत्तित्वेऽनवस्थाप्रसङ्गात् / क्लुप्तजातिषु जातित्वस्वीकारे स्वस्वसहितास्वपितासु जातित्वान्तरकल्पने तत्साम्राज्यात् / सामान्यस्य सामान्यसमवायित्वे द्रव्याश्रितत्वे सति समवायित्वेन गुणाद्यन्यतरत्वप्रसङ्गादवस्थाभावोनवस्थेत्यन्ये / विशेष तत्स्वीकारे च रूपहानिप्रसङ्गो; न हि जात्या समानतापन्नानां विशेषाणां व्यावर्तकत्वं सम्भवति, सम्भवे वानित्यद्रव्यगतैरेकत्वादिभिरेव तत्सम्भवे विशेषस्यैव वैयर्थ्यप्रसङ्गः / समवायाभावयोश्च समवायरूपसम्बन्धाभावान्न जातिमत्वमिति / सामान्यादौ सामान्यं सामान्यमित्याद्यनुगतधीस्तूपाधिनैव / असावपि परम्परासम्बद्धजातिस्वरूप एव / तत्र सत्सदिति धीस्तु सत्तैकार्थसम्बन्धात् , अभावे तु विरोधग्रहादेव न सत्ताधीरभावावृत्तिसत्तैकार्थसम्बन्धेनैव सत्ताग्रहे वा सदित्यभिलापान तत्र सत्तामिलाप * इति; तदेतदविलमिन्द्रजालकल्पम् / पदार्थान्तरभूतस्य सामान्यरय तत्सम्बन्धस्य च समवायरूपस्य सर्वगतत्वेन पटादावपि घटत्वादिवत्ताधीप्रसङ्गात् / .. अथ पटादौ घटत्वादिसमवायसत्त्वेऽपि समवायेन न घटत्वादिवत्ता तदाधारताया घटादिस्वरूपत्वादतो नोक्तदोषः / न च तदीयसम्बन्धवत्वं तद्वत्वनियतम् / गगनीयसंयोगे व्यभिचारात् / वृत्तिनियामकत्वविशेषणान्नैवमिति चेत् , न, करवृत्तितानियामककपालसंयोगवत् कपालस्य स्वाभाववत्त्वेन व्यभिचारात् , तत्र तदृत्तितानियामकः सम्बन्धस्तत्र तद्वत्तानियत इति चेदनुमतमेतत् , अत एव घटत्वादिसमवायस्य पटादिवृत्तिताऽनियामकत्वेन तत्र तद्वत्ताभावाभ्युपगमात् , सन्नपि तत्र तत्समवायः कथं न तवृत्तिनियामक इति चेत् ; तदिदमनुभवं प्रति प्रष्टव्यम् / यो घट एव घटत्वमिति नैयत्येन समुन्मीलतीति / एतेन सामान्यस्य सर्वगतत्वं यदुच्यते तत् किं सर्वसर्वगतत्वं व्यक्तिसर्वगतत्वं वा ?, आधे अन्तराले पटादिव्यक्तावपि तदुपलब्धिप्रसङ्गः / अव्यक्तत्वात्तत्र तस्यानुपलम्भे च व्यक्तेरपि तत एव तदुपपत्तौ सर्वगतत्वं किं