________________ __ वादमाला [2] द्वयोरेकैकस्मिन्नपि द्वित्वस्य द्वित्वावच्छिन्नाधिकरणतासत्त्वादेको द्वाविति प्रतीत्यापत्तिश्च / स्वाधिकरणतावच्छेदकद्वित्वादि विशिष्ट एव द्वित्वाद्यन्वयस्य साकांक्षत्वे घटावित्यादि प्रयोगस्यानुपपत्तिः / किंचेदंत्वस्यकत्ववृत्त्यवच्छेदकत्वे इमो द्वावित्यत्रैकत्वोल्लेखानुपपत्तिः, द्वित्ववृत्ती द्वित्वा वच्छिन्नमेवदंत्वमवच्छेदकं नतु शुद्धमिति न दोष इति चेत् , न, अवच्छेदकावच्छेदकस्यावच्छेदकन्यूनवृत्तित्वनियमात् / तत्रेदंताद्वयत्वमेव बुद्धिविशेषविषयत्वरूपमवच्छेदकमिति चेत् , तथाऽपि घटपटोभयवृत्त्येकत्वस्यैव घटपटोभयभेदवृत्त्यवच्छेदकत्वे घटौ न घटपटावित्यस्याप्रसङ्गः / घटपटोभयत्वान्यसंख्याव्यक्तीनां विशिष्य तदवच्छेदकत्वोपगमे चेमे घटा इमे च पटा न घटपटाविति व्यक्त्यपेक्षबहुत्वावच्छेदेन जात्यपेक्षद्वित्वावच्छिन्नभेदप्रतीतिप्रसङ्गः / किञ्च-द्वौ नैक इत्यत्रानुभवबलाद् व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकभेदसिद्धौ तत एवान्यत्रापि तेन व्यधिकरणधर्मावच्छिन्नाधिकरणताकाभावेन च स्वपररूपविधिनिषेधाविरोधसिद्धी स्याद्वादनीत्यैव सर्वसामंजस्ये किं क्लिष्टकल्पनाकष्टशतेन, अतएव सामान्यविशेषावगुण्ठितस्याद्वादाविरोधेनैकत्रापि धर्मभेदोपरागेणैकत्वद्वित्वयोरविरोधमभिप्रेत्य 'एगे भवं दुवे भवं' इति सोमिलप्रश्ने 'दव्वट्ठयाए एगे अहं नाण दंसणट्ठयाए दुवे अहं' इति प्रत्युवाच परमेश्वरः / तत्र संग्रहनयाभिप्रायेण प्रथममुत्तरं, द्वितीयं च व्यवहारनयाभिप्रायेणेति / ततः स्थितमेतत् सर्वनयोपग्रहेण सामान्यविशेषात्मकं वस्त्विति / / ननु सामान्यविशेषात्मकं वस्त्विति न वस्तुनो लक्षणं सकलतद्वृत्तित्वे सति तदितरावृत्तिधर्मस्य तल्लक्षणत्वात् , इतरव्यावृत्तिनिश्चयाथ हि लक्षणं प्रयुज्यते; न च वस्त्वितरत् प्रसिद्धमस्ति यदनेन लक्षणेन व्यावत्यैतेति चेद्वस्त्वितरत् केवलसामान्यादिकं शशशृङ्गादिकं वा विकल्पप्रसिद्ध व्यावर्त्तयदिदं वस्तुलक्षण घटत इति सम्प्रदायः / वस्तुतो नेतरव्यावृत्तिमात्रं लक्षणप्रयोजनं, किं तु व्यवहारविशेषोऽपि ततोऽदोषशब्दार्थोभयत्वावच्छेदेन काव्यत्वव्यवहारायादोषशब्दार्थोभयस्य काव्यलक्षणत्ववत् सामान्यविशेषोभयत्वावच्छेदेन वस्तुत्वब्यवहाराय सामान्यविशेषोभयस्य वस्तुलक्षणत्वमविरूद्धम् / न चात्र तदितरावृत्तित्वाप्रसिद्धिस्त्वन्मतेऽपीतरत्वसामान्ये तत्प्रतियोगिकत्वस्वाधिकरणानुयोगिकत्वोभयाभावस्य तत्प्रतियोगिकत्वसामान्ये स्वसमा- नाधिकरणभेदवृत्तित्वाभावस्य वा निवेशात्तद्वत्त्यभावाप्रतियोगित्वे सति स्वसम्बन्धिवृत्तिभेदाप्रतियोगिकत्वस्य तल्लक्षणत्वपर्यवसानात् , अतएव केवलव्यतिरेकिहेतुविशेष एव लक्षणमित्यनादृत्य शिवादित्योऽपि 'प्रमितिविषयाः पदार्था' इति पदार्थसामान्यलक्षणं कृतवान् / यत्तु परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणमिति वार्त्तिकवचनमनुरुध्यासाधारणधर्मवचनं न लक्षणं दण्डादेरतद्धर्मस्यापि देवदत्तलक्षणत्वादव्याप्तलक्षणाभासातिव्याप्तेश्चेति धर्म. भूषणेन दूषितं; तत्र तु वयं न सम्यकौशलमवगच्छामः / सजातीयविजातीयव्यावृत्तिफलकत्वेना- वा. [2] 12