________________ वादमाला ननु यदि सामान्यविशेषोभयस्य वस्तुत्वं तदा केवले सामान्ये केवले च विशेषे वस्तुत्वं न स्यादिति चेत् , न, केवलस्य तस्याप्रसिद्धः / तथाप्येको नद्वावितिवत् सामान्य विशेषो वा न वस्त्विति स्यादिति चेत् ; स्यादेव, अत एव सामान्य विशेषो वा न वस्तु नाप्यवस्तु किन्तु वस्त्वेकदेश इति सिद्धान्तः / तत्त्वं च तत्तादात्म्ये सति तत्त्वपर्याप्त्यनधिकरणत्वम् / यथा पटतादात्म्ये सति पटत्वपर्याप्त्यनधिकरणत्वात्तन्तुषु पटैकदेशत्वब्यवहारः / पटसमवायिकारणत्वमात्रेणैव तदुपपादने तु तन्तुसहस्रे सहस्रसंख्यावच्छेदेनापि सहस्रतन्तुकपटैकदेशत्वव्यवहारप्रसङ्ग इति विभावनीयम् / अत्र च सामान्ये विशेषे वा प्रत्येकं वस्त्वेकदेशत्वमेवोद्भूतम् / नयतात्पर्यभेदेन तु वस्तुत्वावस्तुत्वोभयत्वानिर्वचनीयत्वादिप्रकारैः सप्तापि भङ्गाः प्रवर्तेरन् / अनन्तधर्मात्मकवस्तुनयप्रवृत्त्यपरिज्ञानवतां त्वेकत्र द्वित्त्वाभ्युपगमेऽपि व्याकुलीभाव एव / समवायविषयत्वेनैव द्वावित्यादिप्रतीत्युपपादने एको द्वावित्यादिप्रतीतिप्रसंगात् , न च पर्याप्तिसम्बन्धाभ्युपगमेऽपि निस्तारस्तस्यकत्रासत्त्वे द्वयोरप्यभावप्रसङ्गात् / प्रत्येकावृत्तेः समुदायावृत्तित्वनियमात् / अथैकत्र द्वाविति न शाब्दधीरेकत्वाद्यवच्छिन्ने द्वित्वाद्यन्वयस्य निराकाङ्क्षत्वात् , नापि तथा प्रत्यक्ष तत्र यावदाश्रयसन्निकर्षस्य हेतुत्वात् / न चोभयाश्रय सन्निकर्षकालीनस्यायमेको द्वावयं चैको द्वाविति प्रत्यक्षस्य प्रामाण्यं स्यादिति वाच्यम् / तत्प्रामाण्यस्य यावदाश्रयविशेष्यताकत्वघटितत्वात् , एकघटवति च द्वित्वावच्छिन्नाधिकरणताविरहादेव * नोभयघटवत्ताधीरिति द्वित्वस्य पर्याप्त्यनभ्युपगमेऽपि नानुपपत्तिरितिचेत्-न; तथापि द्वित्वव्याप्यधर्मेणैकत्र द्वित्वानुमित्यापत्तेः एको न द्वो द्वो नैक इति प्रयोगायोग्यतापत्तेश्च / अथ पर्याप्तिसम्बन्धेनैक त्वद्वित्वादेवृत्ताविदंत्वद्वित्वादिकमवच्छेदकम् , न चात्माश्रयः द्वित्वा. दिव्यक्तिभेदेनापि तत्सम्भवात् तेनायमेक इमौ द्वाविति प्रमा नतु द्वावेकोऽयं द्वावित्यादिकम् / घटावित्यादि शाब्दधोस्त्ववच्छेदकाविषयैव, तथा पर्याप्त्यवच्छिन्नावच्छेदकताकैकत्वद्वित्वाधव'च्छिन्नभेदवृत्तौ तु द्वित्वैकत्वाद्यवच्छेदकम् / तेन द्वौ नैक एको न द्वाविति प्रमा; न त्वयं नैको, द्वौ न द्वावित्यादि; न वा विरोधः / मूलाग्रवदिदंत्वद्वित्वाद्यवच्छेदकभेदात् , द्वित्वाद्यत्यन्ताभावस्य तु पर्याप्त्यनवच्छिन्नसमवायमात्रस्य प्रतियोगितावच्छेदकत्वाद्वित्ववति द्वित्वात्यन्ताभावानङ्गीकाराद्वैकस्मिन्न द्वित्वमिति न प्रतीतिः, एको नद्वावित्यादि धियामेकत्वादौ द्वित्वाद्यवच्छेदकत्वाभावविषयत्वमेव; न त्वेकस्मिन् द्वित्त्वाद्यभावविषयत्वमिति तु न युक्तम् / एवं सति मूले वृक्षः कपिसंयोगीति प्रत्ययस्यापि मूले कपिसंयोगानवच्छेदकत्वावगाहित्वापत्तेरिति नैयायिकमतपरिष्कारे को दोष इति चेत् , शृणु, तथापि व्यापकत्वविशिष्टसमवायरूपामतिरिक्तां वा पर्याप्ति विनापि शुद्धसमवायेनायं द्वौ द्वावेक इत्यादि प्रतीत्यापत्तिः /