________________ दर्भावतीमंडनपरमप्रभावकश्रीलोढणपार्श्वनाथाय नमः। न्यायविशारद न्यायाचार्य महोपाध्याय श्रीमद् यशोविजयविरचिता वा द मा ला [द्वितीया] // ऐं नमः॥ ऐन्द्रश्रेणिनतं नत्त्वा जिनं तत्त्वार्थदेशिनम् / वादमालां वितनुते यशोविजयपण्डितः // 1 // वस्तुलक्षणम - तत्र पूर्व वस्तुलक्षणं विविच्यते / सामान्यविशेषात्मकं वस्तु / तत्र सामान्यमनुवृत्तिप्रत्ययासाधारणहेतुर्वस्त्वंशो; भवति खलु भिन्नप्रदेशकनानाव्यक्तिविशेष्यकैकत्वप्रकारकप्रतोतो. तादात्म्येन तिर्यक् सामान्यं हेतुः, एकप्रदेशकनानापर्यायव्यक्तिविशेष्यकैकत्वप्रकारकप्रतीतौ च तादात्म्येनोर्द्धतासामान्यं हेतुरित्येतद्विविधमप्यनुवृत्तिप्रत्ययासाधारणकारणमिति; विशेषो व्यावृत्तिप्रत्ययासाधारणहेतुर्वस्त्वंशो भवति खल्वेकविशेष्यकानेकत्वप्रकारकप्रतीतौ तादात्म्येन विशेषो.. हेतुरिति / न च घटा अनेके इति प्रतीतावनेकविशेष्यकत्वस्यैवानुभवादसङ्गतमेतदिति वाच्यम् , विशेषग्रहणाभिमुखक्षयोपशमसामर्थ्यादेकविशेष्यकानेकत्वप्रकारकबोधेऽपि तथाभिलापसम्भवादेकसामान्यतादात्म्यापन्नव्यक्तीनां कथञ्चिदेकत्वस्याप्यविरोधादिति / तदात्मकत्वं च तदुभयत्वम् / तच्च भेदाभेदसम्बन्धेनैकविशिष्टापरत्वम् / अतिरिक्तद्वित्वे मानाभावात् / . यत्त्वविशिष्टयोरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययादतिरिक्कमेव द्वित्वमिति दीधितिकृतोपदशितं, तम्न, तत्राप्येकज्ञानविषयत्वादिसम्बधेन वैशिष्ट्यस्य सम्भवात् , एतेन विरोधभ्रमेऽप्युभय.. वातीतेर्भूतत्वमूर्तत्वाद्योरपि न विशिष्टत्वरूपमुभयत्वमिति विद्योतनलिखितमप्यपास्तम् / एकसम्बन्धेन विरोधभ्रमेऽपि सम्बन्धान्तरेण वैशिष्टयबुद्धेरप्रत्यूहत्वात् /