________________ आत्मख्यातिः विषयापरोक्षत्वसंभवात्संविदभेदो ह्यपरोक्षतेति रिक्तं वचः / न च नभोनैल्यादावपि स्वाकाराविद्यावृन्निविषयतया साक्षिणि स्वाध्यस्तत्वमेवापरोक्षत्वप्रयोजकमिति वाच्यं अनुमानवृत्तिविषये वह्नयादावतिप्रसंगात् , लिंगाद्यजन्यत्वेन वृत्तिविशेषणे तस्यैव प्रयोजकत्वात् , ईश्वरेऽपि सर्वाकारमायावृत्तिविषयतयाऽतीतानागतकल्पा वर्तमानकाले यद्यध्यस्तास्तदा वर्तमानत्वेन तद्ज्ञानापत्तिः यदि च नाध्यस्तास्तदा तदज्ञानादीश्वरस्यासावश्यम् / अथ साक्षादध्यस्तत्वमेव वर्तमानत्वप्रयोजकं न तु वर्तमानेश्वरज्ञानविषयतयाऽध्यस्तत्वमतोतानागतार्थानां तथेति चेत् , ज्ञानविषयत्वमपि तेषां तदा सतामसतां वा ? आये वर्तमानत्वापत्तिः अन्त्येऽसत्ख्यात्यापत्तिः; अथेश्वरज्ञानविषयतया तदा तत्सत्वेऽपि स्वरूपेणासत्वं न विरुध्यते भावत्वादिना प्रमाणगम्येऽप्यज्ञानादौ स्वरूपेण तद्गम्यत्ववदिति न दोष इति चेत् , नन्वेवं स्याद्वादपक्षे प्रवेशात्सर्वत्रानाविलमहन्मतमेवाश्रयणीयम् / रजतादेः प्रमातृचैतन्याभिन्नेदमंशचैतन्येऽध्यस्तत्वात्सुखादिवदपरोक्षत्वमित्यपि न समीचीनम् ,इदंवृत्त्या चैत्रापरोक्षे इदमंशचैतन्ये उत्पन्नस्य चैत्ररजतस्य मैत्रस्याप्यपरोक्षत्वापत्तेः / इदंवृत्त्येदमंशस्य चैतन्यस्य मैत्रस्याप्यपरोक्षत्वान्मैत्रचैतन्याभेदेनानुत्पन्नत्वान्न तत्र मैत्रापरोक्षत्वमिति चेत् , न, चैत्रचैतन्य इव मैत्रचैतन्येऽपोदमंशचैतन्याभेदाविशेषे चैत्रचैतन्याभेदेन तदुत्पन्नं न मैत्रचैतन्याभेदेनेत्यत्र नियामकाभावात् , तच्चैतन्याभेदेन रजतोत्पतौ तद्गतविशेषादर्शनाद्येव नियामकभिति नातिप्रसंग इति चेत् तर्हि येन रूपेणास्माकं तत्तद्धेतूनां रजतादिभ्रमहेतुता तेन रूपेण तव रजतादिहेतुतेति पर्वतत्वावच्छेदेन कूटलिंगजपरामर्शात्पर्वतत्वावच्छेदेनैव मिथ्या वह्नयुत्पत्तिरिति पर्वतापारोक्ष्यात्तदपारोक्ष्यापत्तिः / अथ पर्वतत्वावच्छेदेन परामर्शोऽपि नीलपर्वते वह्निकल्पने लाघवमिति लाघवज्ञानसहकृतो यथा परेषां मते नीलपर्वतत्वावच्छेदेनैव वह्नयनुमितिं जनयति तथास्माकं पर्वतत्वावच्छेदेन कूटलिंगजपरामर्शोऽप्यदृश्यमानप्रदेशावच्छेदेन वह्नयभावाज्ञानसहकृतस्तदवच्छेदेनैव पर्वते वह्निमुत्पादयतीत्यदोष इति चेत् , तर्हि तत्प्रदेशस्थतादृशपरामर्शवत्पुरुषान्तरस्य तदपारोक्ष्यापत्तिः, तत्प्रदेशावच्छिन्नपर्वते तदीयवह्नयुत्पत्तौ तत्प्रदेशावच्छेदेन तदीयवह्नयभावाज्ञानत्वादिना हेतुत्वकल्पने चातिगौरवम् , एवं सन्निकर्षादिवशाच्चैत्रीय जतादेमॆत्रादेः प्रत्यक्षवारणाय चैत्रीयरजतप्रत्यक्ष चैत्रीयरजतत्वादिना विषयविधया हेतुत्वेऽप्यतिगौरवमिति न किंचिदेतत् / - अपि च विशेषादर्शनादे रजतभ्रमत्वापेक्षया लाघवाद्रजतत्वं यथा कार्यतावच्छेदकं त्वयोच्यते तथा घटचक्षुःसन्निकर्षादेरपि घटज्ञानत्वापेक्षया लाघवाद् घटत्वमेव कार्यतावच्छदेकं कल्पयितुमुचितमिति शुक्तिरजतवद्घटादेरपि प्रातोतिकत्वमागतम् एवं च तदाकारवृत्त्याश्रयणे गौरवावृत्तिगतमेव रजतत्वघटत्वादि तथा कल्पयितुमुचितमिति ज्ञानाकारमात्रं जगदिति वदन् योगाचार एवं बिजयते / . अथ दृष्टिसृष्टिवादे चतन्यातिरिक्तपदार्थानामज्ञातसत्त्वं नास्त्येवेति घटादीनां यदा प्रतीतिस्तदा सत्त्वं नान्यदा, न च तत्र दण्डादिजन्यत्वं किन्त्वज्ञानमात्रजन्यत्वं, स्वप्नवच्च दण्डाद्यपादानं