________________ 84 आत्मख्यातिः अज्ञान देहादिकं तु भासमानमेव तिष्ठति अभावनिश्चयाभावाच्च पुत्राद्यभावकृतरोदनाद्यप्रसंगः / प्रत्यभिज्ञानमपि भ्रम एवाकाशादिक्रमेण सृष्ट्यादिवर्णनमपि मतान्तरसिद्धं नादियते / ज्ञानजन्यत्वसाक्ष्यध्यस्तत्वयोस्तौल्येऽपि घटादेरपरोक्षत्वं वह्नयादेः परोक्षत्वं च, तत्रापरोक्षत्वादेरप्यध्यस्तत्वादेवेत्येतावन्मात्रेण सौगतप्ताम्येऽप्यधिष्ठानस्य स्थायित्वादबाधितत्त्वाच्चाज्ञानस्याप्यनादेः सकलदृष्टिहेतोरङ्गीकारादस्ति वेदान्तिनां विशेष इति चेत् , न, दण्डघटादाविव यागस्वर्गादावपि कार्यकारणभावस्य स्वप्नतुल्यत्वेन यजेत स्वर्गकाम इत्यादेः प्रामाण्याभावे वेदान्तेष्वपि प्रामाण्यानाश्वासप्रसंगात् / लोकेऽज्ञानातिरिक्तकारणाभावेऽपि वेदे यागादौ स्वर्गादिसाधनता प्रामाणिक्येवेत्यर्धजरतीयाश्रयणीयं तु परेषां वासनामात्रजृम्भितमिति संविद भेदस्यांपरोक्षतानिमित्तत्वे ज्ञानाकारमात्रमेव जगत्स्यादित्यवधेयम् / तथा च सुष्ठपहसितमेतत् प्रत्यक्षादिप्रसिद्धार्थ-विरुद्धार्थाभिधायिनः। वेदान्ता यदि शास्त्राणि, बौद्धैः किमपराध्यते // इति / तदेवं वेदान्तिनामिव जैनानां संविदभेदस्य नापारोक्षतानिमित्तित्वमिति ज्ञानस्य स्वसंविदितत्वेऽपि कथमात्मनः स्वसंविदितत्वमिति चेत् , न, अर्हन्मतस्य सकलनयमयत्वेन वेदान्ति-- नयेऽखण्डाद्वितीयस्वविषयज्ञानरूपत्वेन सौगतमते च स्वाकारज्ञानपर्यायमात्ररूपत्वेनात्मनः स्वसंविदितत्वोपगमे दोषाभावात् / / यत्वपरोक्षत्वे सति फलाव्याप्यत्वमेव स्वप्रकाशत्वमिति वेदान्तिनये परिभाष्यते, तच्चिन्त्यम् , विशेषणद्वयेनानुमेये घटादौ चातिव्यप्तिवारणेऽपि रजतेऽतिव्याप्तेः / प्रमातृचैतन्याभेदेनाभिव्यक्तचैतन्येन फलेनेदमंशस्य व्याप्यत्वेऽपि पश्चात्तत्रोत्पन्नस्य रजतस्यातथात्वात् , प्रमाणतोऽ. परोक्षत्वविवक्षया रजतव्यावृत्तौ च प्रमाणप्रवृत्यविषये चैतन्येऽगतेः / प्रमाणापरोक्षत्वयोग्यत्वोपादाने चानुमेयवह्नयादावतिव्याप्तेः / सर्वदा स्फुरद्रूपत्वं स्वप्रकाशत्वमिति फलितार्थोऽपि न युक्तः सर्वदेत्यस्य व्यर्थत्वात् / स्वविषयत्वस्वभावविशेषेणैव स्वसंविदितत्वव्यवहारोपपत्तेरिति दिगू / वस्तुत आत्मा ज्ञानद्वारा ज्ञानानन्य एवेति तद्वारा स्वसंविदितत्वं ज्ञानातिरिक्तपर्यायद्वार तु न तथात्वमिति स्याद्वाद एवानाविल इति सर्वमवदातम् // समाप्तेयं न्यायविशारदन्यायाचार्यश्रीमद्-यशोविजयवाचकेन विरचिता-आत्मख्यातिः // ___ इयं आत्मख्यातिः परमपूज्याचार्यश्रीविजयधर्मसूरीश्वर. शिष्यमुनियशोविजयेन संशोधिता संपादिता च / वि०सं० 2020 वर्षे