________________ आत्मख्यातिः तद्ज्ञानस्य भ्रमविरोधित्वाच्छुक्तो रजतमितिवदहं गज इति भ्रमायोगात् , इदमाकारस्तु रजतभ्रमाविरोध्येव तत्र भासते / स्वप्ने तु गजाकारवदिदमाकारोऽपि मिथ्यैव / उभयाकारबाधेऽप्यधिष्ठानचैतन्याबाधान्न शून्यवादः / अध्यस्तमेव परिस्फुरति भ्रमेष्विति न्यायानुसरणे त्विदमाकारो रजतभ्रमेऽपि प्रातीतिक एवाधिष्ठानसत्यत्वमेव चाध्यासप्रयोजकमिति दिगित्याहुः / वेदान्तमतनिराकरणम् / ___ इयं च प्रक्रिया निर्मूला अद्वैतवादेऽज्ञानस्यैवासत्त्वेन तन्मूलकप्रपंचाध्यासस्य तन्निष्ठावरणशक्त्यभिभवनाशादिद्वारा प्रमातृविषयचैतन्याभेदादेश्च वक्तुमशक्यत्वात् , अनिर्वचनीयविचित्रशक्तिकाज्ञानाभ्युपगभे सदद्वैताव्याकोपान्न दोष इति चेत् , न, अनिर्वचनीयरजतस्येवानिर्वच. नीयाज्ञानस्य कार्याक्षमत्वात् , अन्यथा मृगे शशत्वभ्रमे तच्छंगे शशशृंगमिदमिति प्रतीत्यनुरोधेनानिर्वचनीयशशशंगोत्पत्त्यभ्युपगमेन तस्यापि कार्यक्षमतां वदन् वेदजडो भवान् कस्य नोपहास्यः स्यात् / न च तत्र मृगे तादात्म्येनोत्पन्नेऽनिर्वचनीयशशे तादृशशंगस्यैवोत्पत्तिः स्वोक्रियते न त्वखण्डशशशंगस्येति वाच्यम् , शुक्तौ रेजतभेदाज्ञानस्यातादात्म्येन तत्र रजतोत्पादकत्ववन्मृगशंगे शशशंगभेदाज्ञानस्य तत्र तादात्म्येन शशशंगोत्पादकताया एव त्वन्मते युक्तत्वात् अन्यथा तत्र शंगत्वेन द्वेधा भानप्रसंगात् / अपि चेन्द्रियद्वारा निःसृतान्तःकरणवृत्तिपरिणामापादितस्य विषयचैतन्ये प्रमातृचैतन्यामेदस्यापरोक्षत्वनियामकत्वे कविकाव्यमूलभूतज्ञानविषयाणां प्रातिभज्ञानविषयाणां च पदार्थानां कथमपरोक्षत्वं तदवच्छिन्नब्रह्मचैतन्ये प्रमातृचैतन्याभेदस्य तत्रोपायाभावेन वक्तुमशक्यत्वात् / ____ अथ स्वाकाराविद्यावृत्तिप्रतिफलितसाक्षिविषयीक्रियमाणनभोनॆल्यादिवदीश्वरीयमायावृत्तिविषयोक्रियमाणातीतानागतानन्त कल्पवच्च तेषां लिंगाद्यप्रतिसन्धानेन ज्ञायमानतयैवापरोक्षत्वव्यवहार इति चेत् , नन्वेवं घटादावपीत्थमेवापरोक्षत्वोपपत्तौ तत्र विषयचैतन्याभेदाभिव्यक्तिप्रयासवैफल्यम् / न च ज्ञानस्य घटादिनिष्ठत्वोपपादकतया तत्साफल्यं विषयेन्द्रियसन्निकर्षमात्रादेव तदुपपत्तेः / द्विविधं ह्यावरणमेकमसत्त्वापादकमन्तःकरणावच्छिन्नसाक्षिनिष्ठमन्यदभानापादकं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठम् / आद्यं परोक्षापरोक्षसाधारणप्रमामात्रनिवर्तनीयम् अनुमितेऽपि वह्नौ नास्तीति प्रतीत्यनुदयात् , अन्त्यं तु साक्षात्कारेणैव निवर्तते साक्षात्कृत एवार्थे न भातीत्यप्रतीतेः, ततो ज्ञानाज्ञानयोः समानश्रयविषयकत्वेन निवर्त्यनिवर्तकभावादभानापादकघटावच्छिन्नब्रह्मवैतन्यनिष्ठावरणनिवृत्तये घटसाक्षात्कारस्य सन्निकर्षाधीनान्तः करणपरिणामेन घटनिष्ठत्वमानं स्वीक्रियतामुभयचैतन्याभेदाभिव्यक्तिस्तु निष्प्रयोजना / परोक्षत्वस्य लिंगाद्यजन्यज्ञानत्वेनैवोपपादनात् / वस्तुतस्तत्तदाकारसाक्षात्कारत्वेनैव तत्तदज्ञाननिवर्तकत्वात्तत्र विषयनिष्ठत्वमप्रयोजकं नमोनैन्यादावभावाच्च / साक्षात्कारत्वं च लिंगाद्यजन्यज्ञाननिष्ठविषयताविशेष इति तन्निरूपकतयैव