________________ आत्मख्यातिः यद्यपि चक्षुवयं तम इति पक्षोऽप्यस्ति, तथापि चक्षुषः स्वविषये आलोकसापेक्षप्रवृत्तिनियमात् साक्षादज्ञानारब्धस्य स्वप्नशुक्तिरजतादौ चक्षुर्ग्राह्यत्वाभावव्याप्तिग्रहात् , निमीलितनयनस्यान्तरतमोदर्शनस्य चाक्षुषत्वानुपपत्तेश्च साक्षिवेद्यं तम इति पक्षोऽप्यभियुक्तैः स्वीक्रियत इति / केचित्त्वन्तःकरणसम्बन्धमात्रं न साक्षिभानप्रयोजकं तत्सम्बद्धेऽनावृतेऽपि शुक्तिरजतादावस्वच्छत्वात्स्वच्छेपि ब्रह्मण्यावृतत्वाद्धर्माधर्मादौ त्वस्वच्छत्वादावृतत्वाच्च तदाकारवृत्तिमन्तरेण भानाभावात्, स्वच्छानावृतसुखदुःखादेरेव तत्सम्बन्धमात्रेण भानात् / स्वप्नस्थलेऽपि मन एव रथाद्याकारेण परिणमते इति मते मनःपरिणामरूपम् अविद्यैव तथा परिणमत इति मते चाविद्यापरिणामरूपम्, स्वाप्निकरथाद्यविद्यावृत्या भासते / न च तदा मनसो वृत्त्याकारपरिणामे द्रष्टत्वसंभवे नात्मनः स्वयंज्योतिष्वासिद्धिर्बहिरिन्द्रियवृत्त्यभावेन तदानीं मनसोऽग्राहकत्वात्तसहकारेणैव तस्य ग्राहकत्वनियमात् सवृत्तिकान्तःकरणावच्छिन्नस्यैव च चैतन्यस्य प्रमातृत्वनियमात् , तदान्तःकरणसत्त्वेऽपि प्रमात्रभावः, अधिष्ठानं च स्वप्नाध्यासस्य मनोवच्छिन्नं जीवचैतन्यमित्येके / मूलाज्ञानावच्छिन्नं ब्रह्मचैतन्यमित्यपरे / . किं श्रेयो ? मतभेदेनोभयमपि, तथाहि ब्रह्मचैतन्यस्याधिष्ठानत्वे संसारदशायां तद्भानाभावाज्जाग्रबोधात्तन्निवृत्तिर्न स्वात् , आकाशादिवत्स्वप्नस्य सर्वसाधारण्यापत्तिश्चेति न तदधिष्ठानम् , न च जोवचैतन्यस्यानावृतत्वेन सर्वदा भासमानत्वात्कथं तदधिष्ठानत्वम् , ? तत्रापि स्वप्नाध्यासानुकूलव्यावहारिकसंघ तभानविरोध्यवस्थाज्ञानाभ्युपगमात् , स्वप्नदशायां चाहं मनुष्य इत्यादिक प्रातीतिकसंघातान्तरज्ञानाभ्युपगगात्, न चाहं मनुष्य इत्यादि व्यावहारिकसंघातज्ञानस्य प्रमाणाजन्यत्वात्कथमज्ञाननिवर्तकम् ? अवस्थान्तरान्यथानुपपत्या तत्कल्पने सुषुप्तावपि स्वप्नबाधकज्ञानोपगमेन जाग्रत्वापत्तेरिति वाच्यम् , स्वप्नावस्थाज्ञानस्यैवान्तःकरणलयसहितस्य सुषुप्तिरूपत्वेन तत्र तदबाधात् जागरणे तु मिथ्यौव स्वप्नोभादित्यनुभवात् , अहमिति ज्ञानस्य प्रमाणजन्यत्वेपि यथार्थत्वाच्छरीरादिज्ञानस्य च प्रमाणजन्यत्वादवस्थाविरोधित्वमनुभवसिद्धम् / विशेषाज्ञानं तु प्रमाणजन्यवृत्तिमन्तरेण न निवर्तते साक्षिणो विद्यासाधकत्वेनैव धर्मिग्राहकमानसिद्धत्वात् / / ___ यावन्ति ज्ञानानि तावन्त्यज्ञानानीति वाऽभ्युपगमाच्छक्तिज्ञानेनेव व्यावहारिकसंघातज्ञानेनाज्ञाननिवृत्तावपि पुनरपि कदाचिद्रजतभ्रमवन्न स्वप्नाध्यासानुपपत्तिरिति जीवचैतन्याधिष्ठानत्वपक्षे न कोऽपि दोषः / मूलाज्ञानावच्छिन्नब्रह्मचैतन्याधिष्ठानत्वपक्षेऽपि रज्वा दण्डभ्रमेण सर्वभ्रमतिरोधानव दधिष्ठानज्ञानाभावेऽपि जाग्रमेण स्वप्नभ्रम तरोभावः / प्रतिजीवं स्वप्नासाधारण्यं तु मनोगतवासनांनाम साधारण्यादात नानुपपत्तिः, अस्तु वा मनोवच्छिन्नं ब्रह्मचैतन्यमेवाधिष्ठानम् , अवस्थाज्ञानस्यावरणत्वाङ्गीकाराच्च नानुपपत्ति: अत एव शास्त्रे क्वचित्तथा व्यपदेशः / न चात्र पक्षेऽहं गज इत्यहंकारसामानाधिकरण्येन प्रतीत्यापत्तिः अहंकारस्य शुक्तिवदधिष्ठानावच्छेदकत्वात् , आ. 11