________________ आत्मख्यातिः षयाज्ञानेन / यदुत्पद्यते तत्तत्सामानाधिकरण्येन स्फुरतीति न नियतं शुक्तिविषयाज्ञानेनोत्पम्नस्य रजतस्य शुक्तिसामनाधिकरण्येनेदं रजतमिति स्फुरणात् , अहंकारसुखादेरपि चिन्मात्राज्ञानारब्धस्य चित्सामानाधिकरण्येनाहमित्यहं सुखीति स्फुरणात्, आकाशघटादेरपि सत्सामानाधिकरण्येनानुभूयभानत्वात् , क्वचिदपि व्यभिचाराभावात्, न च पर्वते वह्नयभावाज्ञानारब्धस्य वहनेवह्नयभावसामानाधिकरण्येन स्फुरणाभावाद्वयभिचारः शुक्तौ शुक्तित्वप्रकारकशुक्तिविशेष्यकाज्ञानस्य रजतारम्भकत्ववद्वह्यभावप्रकारकपर्वतविशेष्यकाज्ञानस्यैव पर्वते वहन्यारम्भकत्वात्तत्सामानाधिकरण्येन च पर्वतो वह्निमानिति बढ्नेः स्फुरणस्य सर्वसिद्धत्वात् / एतेन भ्रमानुमितौ पर्वते क्हनेस्तत्संसर्गस्य वा न जन्म वहन्यभावाज्ञानस्य तद्भुतुत्वे तत्सामानाधिकरण्येन वह्नः स्फुरणप्रसंगात, पर्वताज्ञानस्च च द्वेतुत्वे हेत्वभावादेव वहन्यनुत्पत्तेरिति पर्वतो वहिनमानित्यन्यथाख्यातिरेव. तत्र स्वीकर्तव्येति केषांचिदर्धजरतीयाश्रयणमपास्तं पर्वते प्रतिभासमानस्य देशान्तरसत्त्वे मानाभावात् तत्र वढेमिथ्यात्वानुभवानुरोधेनोक्तदिशा हेतुतयैव सर्वसामंजस्यात्, गौरवेणमिथ्या. र्थानङ्गीकारे तेनैव मिथ्याज्ञानानङ्गीकाराद्गुरुमतसाम्राज्यापत्तेः / तस्मादस्ति वह्नस्तत्संसर्गस्य वा पर्वते उत्पत्तिः, न च पर्वतापरोक्षत्वेन शुक्तिरजतवत्तदपरोक्षत्वापत्तिः पर्वतावच्छिन्नेसाक्षिणि वह्नयुत्पत्तेरभावात् दृश्यमानप्रदेशावच्छेदेन वह्नयभावानुभवात् , प्रदेशविशेषावच्छिन्ने पर्वते च वह्नयुत्पत्तावपि तदधिष्ठानापरोक्षत्वेन तदपारोश्यात् / अत एवेदंवृत्त्या चैत्रापरोक्षे इदमंशचैतन्ये उत्पन्नं चैत्रस्य रजतं, तयैव तस्मिन्नेव चैतन्ये मैत्रापरोक्षेऽपि न मैत्रस्यापरोक्षं, मैत्रे चैतन्याभेदेनानुत्पन्नत्वादित्येकलोलीभावोऽपि निष्कलंकः / पर्वतत्वेन ज्ञानाच्चाधिष्ठानज्ञानसंपत्तिर्वह्निभ्रमे पक्षता तु पर्वतत्वेनापीष्टेति दिग। __ तत्सिद्धमेतत् यद् यदज्ञाने नोत्पद्यते तत्तत्सामानाधिकरण्ये न स्फुरतीति न जाग्रत्प्रपं चज्ञानारब्धः स्वप्नप्रपञ्चः / नाप्यन्तःकरणावच्छिन्नचैतन्याज्ञानं तदारम्भकमुक्तहेतोरेव अन्तःकरणे च साक्षिवेये नाज्ञानसंभव इत्यनिर्वचनीयत्वाभावान्न स्वाप्निको रथादिः साक्षिवेद्य इति चेत् , अत्रायं. संप्रदायः / . रथादिस्तावदध्यस्तो दृश्यत्वात् तदारम्भकं च मूलाज्ञानमेव / चिन्मात्रनिष्ठं हि तत्स्वकार्यमाकाशादीश्वरत्वावच्छेदेन जनयति, किंचित्त्वहंकारस्वप्नादि जीवत्वावच्छेदेनापि, उभयमप्याकाशाहंकारादि चित्सामानाधिकरण्येन स्फुरतीति न मूलाज्ञानकार्यत्वे दूषणम् , न च तथात्वे संसारदशायां बाधानापत्तिः सविलासाज्ञाननिवृत्तिरूपबाधाभावादिष्टापत्तेः / दोषनिवृत्त्याऽभावबोधरूपबाधस्य तु स्वप्नारम्भकाज्ञानानिवृत्तावपि तूलाज्ञानानङ्गीकारपक्षे मूलाज्ञानकार्यरजतादाविवानुपपत्त्यभावात्जाग्रत्प्रपंचाज्ञानान्वयव्यतिरेकानुविधानं तु स्वप्नारंभकनिद्रादोषेणान्यथासिद्धम् / मूलाज्ञानकार्यमपि स्वाप्निकरथादि जीवे उत्पन्नमिति न, तदाकारवृत्त्यपेक्षाऽहंकारादिवत्स्वाध्यस्ततयैव भानात , एवं तमोपि साक्षिवेद्यम् / स्वाप्नादि साक्षात्, तमस्त्वविद्यावृत्तिविषयतयेति परं विशेषः / या /