________________ आत्मख्यातिः सुखमहमस्वाप्सं न किंचिदवेदिषमिति प्रत्ययो न दुःखाभावज्ञानाभावानुमितिरूपो लिंगाभावात् , नापि दुःस्वाभावज्ञानाभावस्मरणरूपः सुषुप्तौ प्रतियोगिज्ञानाभावेन तद्धत्वनुभवासंभवात् , किन्तु सुखाज्ञानस्मरणरूपः स्वीकर्त्तव्य इति तदन्यथानुपपत्या सुखाकाराऽज्ञानाकारा च वृत्तिः सुषुप्ती तत्र तत्र व्यवस्थापिता, ताभ्यां चाज्ञानसुखाभ्यां स्मर्यमाणाभ्यां सौषुप्ति कज्ञानाभावदुःखाभावानुमानम् , न चाज्ञानस्य न ज्ञानाभावलिंगत्वं व्यभिचारादिति वाच्यम् , अवस्थाविशेषविशिष्टस्य तस्य तल्लिगत्वसंभवात् / स चावस्थाविशेषोऽज्ञानाद्याकारा वृत्तिरेव तेन न ज्ञानाभावादिरूपत्वे सस्थाऽन्योन्याश्रयादिदोषः / मन्वेवं विवरणग्रन्थविरोधस्तत्र हि क्वचित्सुषुप्तौ साक्षिणि विद्यमानोऽपि दुःखामाधो नानु भूयते प्रतियोगिज्ञानादित्युक्तं क्वचिच्च प्रकाशसंसर्गः प्रकाशमानतेत्यभिधाना दुःखाभावस्य साक्षि चत्वमुक्तमिति चेत् , न, साक्षिगम्येऽपि दुःखाद्यभावे विस्पष्टसाक्षिगम्यता प्रतियोगिज्ञानेनैव प्रतियोगिभूतदुःखस्मरणमन्तरादुःस्वाभावत्वेन तद् ज्ञानाभावादित्युभयाभिधाने विरोधाभावात् , सुकुसौ च प्रतियोगिज्ञानाभावान्न दुःखाभावो विस्पष्टसाक्षिगम्यः / न चाविस्पष्टसाक्षिबोधात् स्मृतिसंभवः परैरपि निर्विकल्पस्य स्मृतिजनकत्वानभ्युपगमात् / सुखदुःखादीनां तु विस्पष्टसाक्षिगम्यताऽप्यविद्यावृत्तिमन्तरेणैव तस्याः प्रयोजनाभावात् , दुःखाघभावस्त्वविद्यावृत्तिः स्वीकार्या, एवं ज्ञानाभावेऽपि / अस्तु तर्हि दुःखाभावः प्रमाणगम्यो दुःखामुंपलब्ध्यैव दुःखाभावप्रमाणवृत्तिसंभवादिति चेत् , न, ज्ञानाभावेऽनुपलब्धिग्राह्यताया वक्तुमशक्यत्वात् , ज्ञाताया एव तस्याः प्रमितिजनकत्वेनानवस्थाप्रसंगात् , क्वचिद् ज्ञातायाः क्वचिदज्ञातायाश्च हेतुत्वेऽव्यवस्थाप्रसंगादिति ज्ञानाभावस्य साक्षिवेद्यत्वे दुःखाभावस्यापि तथात्वमैंव, एकत्र क्लृप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायात् / नन्वेवं स्वाप्निकपदार्थानां कथं साक्षिवेद्यत्वम् इदन्तया प्रतिभासमानतया घटादिवत्तवर्नुपपत्तेः नापि प्रमाणगम्यत्वं तत्र प्रमाणानुपरमात् / . किंचानिर्वचनीयं साक्षिवेद्यं भवति, न च स्वाप्निकरथानामनिर्वचनीयत्वम् अज्ञानाजन्यत्वौत् तथाहि न तावन्मूलाज्ञानं तदारम्भकं संसारदशायां बाधाभावप्रसंगात्, नहि मूलाज्ञानकाय सारदशायां बाध्यते, बाध्यते च स्वप्नः / किंच मूलाज्ञानकार्यत्वे तस्य रजतभ्रमे शुक्त्यज्ञानस्येव तत्र जाग्रत्प्रपंचाज्ञानस्यान्वयव्यरिकानुविधायित्वं न स्यात्,अस्ति तदिति / अस्तु तर्हि जाग्रत्प्रपंचाज्ञानमेवारम्भकमिति चेत्, न, वा सति शुक्तौ रजतोत्पत्तिवज्राग्रत्प्रपंचे स्वाप्निकरथाद्युत्पत्तिप्रसंगात् / न चेष्टापत्तिस्तत्सामानाधिकरण्येन स्फुरणाभावात्, करणोपरमेण तदप्रतीतेः / न च यद्वि१. 'पंचपादिका' नामकप्रन्यस्य 'विवरण' इत्याख्या दीका वर्तते /