________________ आत्मख्याति अन्ये तु तत्रापि वह्नयंशे शुक्तिसत्तांशे वान्यथाख्यातिप्रसंगो मा भूदिति वढ्युत्पत्ति रजते सत्तान्तरोत्पत्तिं चाचक्षते / __ . नन्वेवं सुखादिवदपरोक्षत्वे रजताकारा वृत्तिर्न स्यात् , वृत्तिहिँ नाज्ञाननिवृत्यर्था सुखादिवद्रजतस्य यावत्सत्त्वं साक्षिणा भासनात् , नापि सम्बन्धार्था तत्रैवाध्यस्तत्वात् , नापि सुषुप्तावज्ञान नसुखसाक्षात्कारवृत्तिवत्संस्कारार्था रजतनाशादेव विशिष्टसाक्षिनाशात् संस्कारोत्पत्तेरिति चेत् , अत्र केचित्-साक्षिचैतन्यं हि स्वतः स्फुरदपि सर्वगतमप्यसंगततत्तद्विषयावभासनायासमर्थ ज्ञानसंशब्दितवृत्तिप्रतिबिम्बितं विषयावभासकं भवति वृत्त्यवभासकं च, परेषां घटत्वादेः सर्वगतस्याऽपि घटादाविवास्माकं तादृशस्यापि चैतन्यस्य वृत्त्यैव सम्बन्धात् तदवच्छेदेनैवाभिव्यक्तेः, वृत्ति. विषययोस्तु वृत्त्याकारमन्तरेणापि प्रकाशसंसर्गात् प्रकाशमानता, एवं चाज्ञानसुखादीनामपि तदाकाराविद्यावृत्तिप्रतिफलितचिद्भास्यत्वमेव, केवलमाक्षिवेद्यत्वं तु प्रमाणवृत्त्यनपेक्षत्वात् / ततो वक्तव्यैव रजतवृत्तिरन्यथा घटाद्यज्ञानानां साक्षिणि साक्षादध्यस्तत्वेन तेषां, तद्विशेषणतया च घटादीनां सदा भानप्रसंगः विषयविशिष्टत्वादेवाज्ञानप्रतीतेस्तदाकाराविद्यावृत्तिप्रतिफलित चिद्भास्यत्वे तु नायं दोषो वृत्तेरसदातनत्वादित्याहुः। _अपरे तु वृत्तौ तादृशसामर्थ्याभावावृत्तिभानप्रयोजकाध्यासिकसम्बन्धस्यैवाज्ञानदिभानप्रयोजकत्वे वृत्तिकल्पनानवकाशान्नाज्ञानाद्याकारावृत्तिर्भानार्थाऽज्ञानविशेषणतया सर्वविषयमानं त्विष्टमेव मनुष्यत्वाद्यभिमानवत् , अत एव स्वसत्तायामव्यभिचारि-प्रकाशत्वमहंकारादीनामुक्तं प्रन्थकारैः / हन्तैवमज्ञानसुखादिवत् साक्षिण्यध्यस्तं रजतमपरोक्षमिति न स्वाकारां वृत्तिमपेक्षेत तद्धीदं वृत्त्येन्द्रियद्वारा बहिनिःसृतयेदमंशावच्छिन्नब्रह्मचैतन्याभिन्नप्रमातृचैतन्ये उत्पन्नं ततश्च प्रमातचैतन्यमिदमाकारवृत्तिप्रतिफलिततयेदमंशे प्रमाणमपि तत्रैव विषयेऽभिव्यक्ततया फलमपि, रजतांशे शुद्धसाक्षिरूपं न प्रमाणं फलं प्रमाता वा तदाकारप्रमाणवृत्यभावादिति सुखादिवत्साक्षिगम्यं रजतं न वृत्त्यपेक्षमिति, न, इदमंशावच्छेदेन तस्यापरोक्षत्वेऽपि अन्तरवच्छेदेन वृत्तिविशेषणतया तद्भानार्थे वृत्तेरवश्याश्रणीयत्वात् , न चेदंवृत्तिविशेषणतया रजतस्यान्तः प्रतिभासस्तस्यास्तदाकारत्वाभावात् , घटापरोसत्वमप्यन्तरवच्छे देन वृत्तिविशेषणतयैव, स्वातन्त्र्येण तु बहिरवच्छेदेनैव वृत्तेबहिनिस्सरणस्य बहिरवच्छेदेनैव घटापरोक्षत्वनियामकत्वात्, अज्ञाननिवृत्तेः शब्दादिजन्यवृत्तरेपि भावात् / ___. ब्रह्मचैतन्यं हि घटावच्छेदेनैव घटमपरोक्षीकरोति न शरीरावच्छेदेन नवाऽन्यावच्छेदेन / नहि पटावच्छिन्नं ब्रह्मचैतन्यं घटं विषयोकरोतीति युज्यते, पटावच्छिन्नस्य सर्वज्ञत्वप्रसंगात्, अतो घटसंसृष्ट वृत्तिवृत्तिसंसृष्टो वा घटश्चैतन्यद्वयस्याभेदाभिव्यञ्जक इत्युभयथापि घटावच्छेदेन चैतन्थयोरभेदाभिव्यक्त्यर्थवृत्तेर्बहिर्निस्सरणं दृष्टार्थं भवत्यन्यथाऽदृष्टार्थत्वप्रसंगात् /