________________ आत्मख्यातिः [77 किंच विषयावच्छिन्नं. फलमित्यविवादं, तेन फलव्याप्यता विषयावच्छेदेनैव, सा हि न केवलसाक्षिगम्ये सुखादो नापि परोक्षे किंतु प्रमाणापरोक्षे, तत्त्वं च जडस्य फलव्याप्यत्वमिति सिद्धं विषयावच्छेदेनैव घटापरोक्षत्वमिति शरीरावच्छेदेन तत्स्फुरणं वृत्तिविशेषणतयैव / न चैवं शरीरावच्छेदेन घटं साक्षात्करोमीति धीन स्यावहिरवच्छेदेनैव घटापरोक्षत्वादिति वाच्यम् , विषयापरोक्षत्वनिमित्तकस्य वृत्तिगतस्य साक्षात्कारत्वधर्मस्यानुमितित्वस्येव शरीरावच्छेदेन साक्षिगम्यत्वाविरोधात् / - तदेवं केवलसाक्षिवेद्यत्वे तुल्येऽपि रजतादौ वृत्तिरपेक्षिता नाज्ञानादौ, न च देहस्य न केवलसाक्षिवेद्यता चक्षुर्ग्राह्यत्वेन प्रमाणवेद्यत्वादिति वाच्यम् / तथा सत्यज्ञानविषयत्वेन कदाचिदहं मनुष्यो नवेति संदेहापत्तेः, तस्मादेक एव देहो देहत्वेन ब्रह्मण्यध्यस्तो न जोवेऽहं देह इत्यप्रतीतेः, तादात्म्याभिनिविष्टमनुष्यत्वेन तु जीवेध्यस्तो न ब्रह्मणि, अहं मनुष्य इति प्रतीतेः, परेण मनुष्यमात्रस्य चक्षुषा ग्रहणेऽपि चित्तादात्म्यापन्नमनुष्यत्वस्याऽयोग्यत्वान्न ग्रह इति तेन रूपेण केवलसाक्षिवेद्यत्वमेव / एवमन्तःकरणादिरपि तत्त्वादिना ब्रह्मण्यध्यस्तोऽहन्वादिना तु जीव इति सिद्धमज्ञानोपहितचैतन्यरूपसाक्षिवेद्यत्वं देहस्य / नन्वेवं भवतु देहस्य केवलसाक्षिवेद्यत्वं अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्तीति भाष्यप्रतोके केवलसाक्षिवेद्य इति व्याख्यातृणां विवरणाचार्याणामभिमतमाकाशस्य तत्वं तु कथं घटते ? ईश्वरसाक्षिवेद्यत्वेन तत्त्वस्यातिप्रसंगात्, जीवसाक्षिवेधं च कथमाकाशं तत्र तस्यानध्यस्तत्वात् / स्वानध्यस्तस्यापि साक्षिवेद्यत्वे घटादावांतप्रसंगात् / न चेदमंशस्य प्रमाणगम्यत्वेऽपि रजतस्य साक्षिवेद्यत्ववद् घटस्य स्वाकारप्रमाणवृत्ति गम्यत्वेऽपि घटावच्छिन्नाकाशस्य साक्षिवेद्यत्वमुपपत्तिमद्रजतस्यानावृतत्वादाकाशस्य त्वावृतत्वात् / घटवृत्त्या च घटाकाशावरणानिवृत्तेः अन्याकारवृत्त्याऽन्यावरणनिवृत्तावतिप्रसंगात्, एतेनोवदेशवर्तिप्रभामण्डलावच्छिन्ने नभसि नैल्यारोपस्तच्च प्रभामण्डलवृत्त्यैव स्फुरति इदंवृत्त्येव रजतमित्यपि निरस्तम्, उक्तदोषात् / ____ न च प्रभामण्डलवृत्त्या तदवच्छिन्नचैतन्यावरणनिवृत्तिवत्तदवच्छिन्नाकाशावरणस्यापि निवृत्ती नातिप्रसंगः तद्विषयावृत्तिस्तदवच्छिन्नविषयावरणनिवृत्तिहेतुरित्येव नियमादिति वाच्यम् , विषयावच्छिन्नचैतन्यस्यैव सर्वत्र प्रमाणवृत्तिविषयत्वात्, प्रभामंडलविषयत्वस्यापि तदवच्छिन्नचैतन्यावरणनिवृत्तावपि न तदवच्छिन्नाकाशावरणनिवृत्तिः, अन्यथेदंवृत्त्या शुक्त्यावरणनिवृत्तिप्रसंगादिति / यत्तु रजतवत्केवलसाक्षिवेद्यमेव प्रभामण्डलावच्छिन्नं नभो न तु तत्रावरणमस्ति ऊर्ध्वदेशवर्तिप्रभामण्डलज्ञानमात्रेण नीलं नभ इति बोधदर्शनादिति, तन्न, इदंवृत्येदमंशावच्छिन्नब्रह्मचैतन्याभिन्ने साक्षिण्यध्यस्तस्य रजतस्य साक्षिवेद्यत्वोपपत्तावपि नभसि तदनुपपत्तेः, न हि तत्प्र