________________ 1GG आत्मख्यातिः र्थाऽज्ञाननिवृत्यर्था वा वृत्तिः किन्तूपरागार्था / जीवचैतन्यस्य ह्यसंगत्वाद् घटानधिष्ठानत्वाच्च न वृत्तेः प्राग्घटसम्बन्धः, अन्तःकरणवृत्तिस्तु जीवेध्यस्तेति युज्यते तया सह सम्बन्धः, तेनेन्द्रियद्वारा निःसृतान्तःकरणवृत्त्या संसृष्टे घटे घटसंसृष्टायां वा वृत्तौ जीवचैतन्यं विषयाधिष्ठानचैतन्याभेदाफ्नं भवति ।अनेन प्रकारेण घटाध्यास एवोपरागः / न च ब्रह्माध्यस्तो घटः प्रमाणवृत्त्या जीवाध्यस्तो भवतीत्येवाभ्युपगन्तव्यं किमुभयचैतन्याभेदापत्त्येति वाच्यम् ,वृत्तेर्बहिन्निस्सरणवैयर्थ्यप्रसंगाद, उभयचैतन्याभेदाभिव्यक्त्यर्थमेव तदुपगमात्तदनंगीकारे चान्तःस्थया वृत्त्यान्तःकरणोपहिते जीवे कथं बहिष्ठघटाध्यासः / ___ न च घटाव्यवहिततया घटावच्छिन्नजीवचैतन्यस्यासंगस्याध्यासिकघटसंसर्गार्थमेव वृत्तेबहिनिस्सरणम् अयमेव चोपराग इति वाच्यम् , एवं सति ब्रह्माध्यस्तघटसंसर्गस्य जीवचैतन्ये उत्पत्तौ तस्यैवापरोक्षत्वं स्यान्नतु घटस्य, नहि देशान्तरीयरजततादात्म्योत्पत्तावपि रजतस्यापरोक्षत्वं नामेति तस्मादुभयचैतन्याभेदाभिव्यक्त्या घटस्य स्वाध्यस्तत्वमेवोपराग इत्येव सम्यक् / यद्वा वरणाभिभवार्था वृत्तिः सर्वगतेपि जीवचैतन्येऽखण्डावरणस्य, स्वविषयचैतन्यगोचरप्रमात्रादिविस्पष्टव्यवहारप्रतिबन्धके उत्तेजकस्थानीयेनान्तःकरणपरिणामेन तत्कार्यप्रतिबन्धरूपाभिभवाधानात् , तदर्थत्वावृत्तेः, भवति हि तदभिभवे परिणतान्तःकरणसम्बन्धात्प्रमात्राकारं परिणामसम्बन्धाप्रमाण परिणामसंसृष्टविषये विषयचैतन्याभेदेनाभिव्यक्तं जीवचैतन्यं फलमिति विस्पष्टव्यवहारः, न चास्मिन्पक्षे परिणामसंसृष्टविषयाभिव्यक्तजीवचैतन्येन घटविषयीकरणे किमुभयचैतन्यामैदाभिव्यक्त्येति वाच्यम् , ब्रह्माध्यस्तघटस्य जीवचैतन्यापरोक्षत्वाय तदाश्रयणावश्यकत्वात् , संविदभेदो ह्यपरोक्षता नामेति / ___एवं घटावच्छिन्नब्रह्मचैतन्याभेदेनाभिव्यक्तं प्रमातृचैतन्यं घटं विषयीकरोतीति घटस्य फलव्याप्यत्वमुच्यते / विषयेऽभिव्यक्तं चैतन्यं फलं वृत्त्यवच्छिन्नं प्रमाणं प्रमापरिणतान्तःकरणाकछिन्नं च प्रमातेत्यंशभेदेन त्रिधाव्यवहारः / वह्नयादौ त्वनुमानादिवृत्या प्रमातृचैतन्यनिष्ठा सन्मानिवृत्तावप्युभयचैतन्या-भेदाभिव्यक्त्यभावावृत्तेश्चान्तरेवोत्पादात्परोक्षता, भ्रमस्थले तु शुक्त्यज्ञानसमुत्पन्नमनिर्वचनीयं रजताद्यवभासत इत्युपगम्यते, तत्रेदंवृत्त्येदमंशस्य घटादिन्यायेनापरोक्षत्वं, रजतं तु प्रमातृचैतन्याभिन्नेदमंशचैतन्येध्यस्तं सुखादिवदपरोक्षम् , इदसंशतादात्म्येनोत्पन्नत्वाच्चेदं रजतमिति प्रत्ययो नत्वहं सुखीतिवदहं रजतमिति / कथं तर्हि तत्र सत्तावभासः शुक्तिसत्तावभासेऽन्यथाख्यात्यापत्तेरिति चेत्, न, अनिर्वचनीयशुक्तिसत्तासंसर्गस्यैव तत्रोत्पत्त्यंगीकाकारासू, तर्हि देशान्तरीयरजतसंसर्ग एव शुक्तौ स्वीक्रियतामनिर्वचनीयो भ्रमानुमित्यादाविव निव निर्वाहसंभवात् , किं रजतान्तरोत्पादकल्पनयेति चेत् , न, एवं सति रजतस्य वह्नरिव परोक्षत्वापत्तेः शुक्तिसत्तायास्त्वपरोक्षत्वं प्रमाणवृत्त्यैवेदमंशवत् /