________________ आत्मख्यातिः चित्तबुद्धिमनोऽहंकारशब्दैर्व्यवयिते, इदमेवात्मतादात्म्येनाध्यस्यमानमात्मनि सुखदुःखादिस्वधर्माध्यासे उपाधिः, स्फटिके जपाकुसुममिव लौहित्यावभासे, यथा स्फटिकेऽधिष्ठाने लौहित्यमनिर्वचनीय तत्संसर्गो वाऽनिर्वचनीयः समुत्पद्यते एवमात्मनि कर्तृत्वाद्यन्तरं तत्संसर्गो वाऽनिर्वचनीय इत्यर्थः / . . एवं च नान्यथाख्यतिः, इयांस्तु विशेषः स्फटिके जपाकुसुमे सतो लाहित्यसँसगदिन्छ। संसर्गः, आत्मनि तु संसर्गोत्पत्तिपक्षे न संसर्गान्तरं किन्तु स्वाश्रयतादात्म्यमेव, अहं कत्तेति कर्तृत्वविशिष्टस्यैवान्तःकरणस्य तादात्म्येनाध्यासस्य विवरणाचार्यादिसंमतत्वात् , सर्वस्वाच्या स्तत्वेन तत्र संसर्गान्तरकल्पने मानाभावात् , कर्त्तत्वान्तरोत्पत्तिपक्षे तु संसर्गान्तरोत्पत्तिः स्वीक्रियेत एव, न च स्फटिके लौहित्यसंसर्गोत्पत्तिपक्षे लौहित्यापरोक्षत्वानुपपत्तिः स्फटिकावच्छिन्ने प्रमाल चैतन्ये लौहित्याध्यासाभावादिति वाच्यम् , जपाकुसुमनिष्ठस्य प्रमाणवृत्त्वाऽपरोक्षस्यैव संतों लौहित्यस्य संसर्गः स्फटिके उत्पद्यत इति स्वीकारात् , यथा ह्यधिष्ठानापरोक्षत्वदशायामेव रजतोत्पत्तिस्तथा लौहित्यस्यापरोक्षत्वदशायामेव स्फटिके तत्संसर्गोत्पत्तिरुभयज्ञानस्यापि. गृहामाणारोप कारणत्वादिति दिग् / एवं प्राणापानादयस्तद्धर्माश्चाशनायापिपसादयस्तथा श्रोत्रादयो वागादयश्च तद्धर्माश्च बधिरत्वान्धत्वादयोध्यस्यन्ते, तथा देहस्तद्धर्माः स्थूलत्वादयश्चात्मन्यध्यस्यन्ते, तत्रेन्द्रियादीमा न तादात्म्याध्यासोऽहं श्रोत्रमित्यप्रतीतेः, देहस्तु मनुष्योऽहमिति प्रतीतेस्तादात्म्येनाध्यस्यत इत्यायूहाम्। घटस्तु ब्रह्मणस्ताक्दपरोक्ष एव, संविद्रूपे ब्रह्मण्यभेदेनाध्यस्तत्वात् / जीवस्य तु परिच्छिन्नस्य पक्षे, यद्यपि न तेन सम्बन्धस्तथाप्यदृष्टेन्द्रियार्थसन्निकर्षादिनोत्पद्यमानेन "वियद्वस्तुस्वभावानुरोधादेव न कारकात् / वियत्संपूर्णतोत्पत्तौ कुम्भस्यैवंदृशा धियाम् // " इति न्यायेन चित्खचितेन घटादिपर्यन्तं लम्बमानेन स्वाध्यस्तान्तः करणपरिणामेन वृत्त्याख्येन संसृष्टो घटो घटसंसृष्टा वा वृत्तिर्धटावच्छिन्नब्रह्मचैतन्यावरणनिवृत्तौ तदज्ञाननिवृत्ती वा तदुभयाभावपक्षे वा विषयचैतन्याभेदेनाभिव्यक्तिहेतुः संपघते, ततः स्वाध्यस्तो घटः सुखवदपरोक्षः, एकत्र साक्ष्यपरोक्षत्वमन्यत्र प्रमाणापरोक्षत्वमित्येतावान् विशेषः / अपरिच्छिन्नस्य पक्षेऽपि अपरिच्छिन्नत्वं घटादिभिर्व्यवधाना भावः, तावतैवापरोक्षत्वे जगदपरोक्षवप्रसंग इत्यसंगस्य जीवचैतन्यस्य घटोपरागार्थवृत्तिः, उपरागश्च न संयोगादिरूपः किन्तु प्रागुक्तदिशा स्वर ध्यस्तत्वमेव, तथाहि; अस्मिन् पक्षे व्यवहारसौकर्याय घटावच्छिन्नचैतन्ये आवरणान्तरमझानान्सरं वा नोपगम्यते; घटं जानामोति व्यवहारस्तु प्रमाणवृत्त्यभावादेव, अतो नावरणनिवृत्त्य