________________ आत्मख्यातिः [73 किं तदिति चेत् , स्वभावविशेष एव, अनिर्वचनात्तदसिद्धिरिति चेत् , न, माधुर्यादिवत्तस्याख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यत्वात् / " यदपि प्रत्यक्षाजनकस्य प्रत्यक्षाविषयत्वं स्यादित्युक्तं तदपि प्रागुक्तयुक्त्यैव प्रत्युक्तम्, ईश्वरसाक्षात्कारविषये दोषविशेषप्रभवसाक्षात्कारविषये व्यभिचाराच्च / अतएव लौकिकप्रत्यक्षविषयत्वेन लाघवादिन्द्रिययोग्यत्वात् ज्ञानविषयं मानसं ज्ञानमावश्यकमिति निरस्तम्, कार्यतावच्छेदकसम्बन्धेन कार्यस्य कारणतावच्छेदकत्वे समवायेन घटादिमत्तयापि कपालादिहेतुतापत्तेश्च / ...... तस्माच्छक्तिविशेषेणैवेन्द्रिययोग्यतावच्छेदे इति युक्तम् / एतेन ज्ञानस्य मानससाक्षात्काकारानभ्युपगमे धर्माधर्मादीनामिव मानससाक्षात्कारप्रतिबन्धकत्वकल्पने गौरवमिति सार्वभौममतं निरस्तम्, अयोग्यत्वस्य प्रतिबन्धकत्वेऽविश्रामात् स्वरूपायोग्यतयैव तत्त्वादिति यौक्तिकाः / ...... यत्तु ज्ञानस्य स्वप्रकाशानुमितौ तत्स्वप्रकाशतायामप्यनुमित्यन्तरापेक्षायामनवस्थेति, तन्न, ज्ञानत्वावच्छेदेन स्वप्रकाशत्वानुमितौ तद्विशेषे तत्संशयायोगात् , विशेषे तदनुमित्सया च ताहशानुमितेर्यावसिसाधयिषमनुसरणेनानवस्थापरिहारात् , न चानुव्यवसायेऽप्ययं न्यायः संभवी, प्रत्यक्षस्येच्छानधोनत्वात् , घटदिदृक्षयोन्मीलितनयनस्य पुंसः सन्निकृष्टस्य पटस्यैव दर्शनात् / / यदप्युक्तं ज्ञानजन्यतानवच्छेदकं यत्किचिज्जन्यतानवच्छेदकं यद्विषयत्वं तदवच्छेदेनैव प्रत्यक्ष स्वविषयत्वं तु न तथेति तदवच्छेदेन न प्रत्यक्षसंभव इति, तदप्ययुक्तं, यत्किचिज्जन्यतामवच्छेदकत्वदानस्य व्यर्थत्वात् / .. अत एवाहमेतत्क्षणवर्तिज्ञानवानेतत्सामग्रीत इत्यनुमितावपि परामर्शजन्यतावच्छेदकपक्षसाध्यविषयतातिरिक्तपितृमातृविषयत्वावच्छेदे नैव प्रत्यक्षत्वं संगिरन्ते अहमेतत्क्षणवर्तिज्ञानवानेतदहं जानामीति तदाकारत्वात् / ___ ननु भवतु ज्ञानस्य स्वसंविदितत्वमात्मनस्तु कथम् ! संविदभेदादिति चेत् , न, संविदभिन्नात्माभिन्नत्वेनैवं सर्वात्मधर्माणां स्वसंविदितत्वापत्तेः, न च संविदभेदोऽपरोक्षतेति जैनानां मतं. किन्तु वेदान्तिनामेव / वेदान्तमतेन संविभेदोऽपरोक्षतेति निरूपणम् . ते ह्यवं संगिरन्ते साक्षी तावत्स्फुटं चिद्रूपत्वादपरोक्षः / अज्ञानादेर्दैहपर्यन्तस्य तु तत्राध्यस्तत्वादेवापरोक्षत्वं अध्यस्यमानाधिष्ठानयोरभेदात् , तत्राज्ञानमनादिभ्रान्तिकारणमात्मन्यध्यस्ततयैव , धर्मिग्राहकमानेन सिद्धम् , तच्च स्वपराध्यासे कारणं, न चात्माश्रयादिदोष उत्पत्तिज्ञप्त्यविरोधित्वात् , तेनाज्ञानाध्यासविशिष्टे चैतन्ये अहंकारध्यासः / 'अहमज्ञ' इति स्वहंकाराज्ञानयोरेकचैतन्याध्यासादेकवह्निसम्बन्धादग्धृत्वाऽयसोरयो दहतीतिवत्प्रत्ययः, * अहंकारश्वाहमाकारेण परिणतमन्तःकरणमेव, तद्धि स्मृतिप्रमाणवृत्तिसंकल्पविकल्पाहवृत्त्याकारेण परिणतं आ. 10