________________ 71] आत्मख्यातिः यत्तु वह्विव्याप्यधूमवत्पर्वतवान् देश इति परामर्शात् पर्वतो वह्निमानित्यनुमितेरनुदयावह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नमुख्यविशेष्यताकपरामर्शत्वेन पर्वतो वह्निमानिस्यनुमितौ हेतुता वाच्या, मुख्यविशेष्यतात्वं च प्रकारतानात्मकविशेष्यतात्वं; स्वप्रकाशनये च तदनुपपत्तिः पर्वतविशेष्यताया ज्ञानविशेष्यतानिरूपितप्रकारतात्मकत्वात् , तदतिरिक्तविशेष्यतानिरूपितप्रकारतानात्मकत्वनिवेशेन गौरवमिति, तन्न, स्वप्रकाशस्य व्यवसायानुव्यवसायोभयाकारत्वेऽप्यविरोधात् ,तव ज्ञानमानसादौ वह्नयनुमितिसामग्र्यादिप्रतिबन्धकत्वकल्पने महागौरवाच्च / न च मनःसंयोगनिष्ठवैजात्यस्यैव मानसप्रत्यक्षप्रत्यक्षप्रयोजकत्वान्मानसप्रत्यक्ष प्रति मानसेतरज्ञानसामप्रया एव प्रतिबन्धकत्वं, वैजात्यस्य फलबलकल्पतया मानसेतरज्ञानजनकमनःसंयोगे तदनभ्युपगमात् / न च मनः संयोगनिष्ठवैजात्यस्य लौकिकमानसप्रत्यक्षं प्रत्येव प्रयोजकतया मानसेतरज्ञानोत्पत्तिसमये सर्वाशालौकिकमानसवारणायैव मानसेतरज्ञानसामग्याः प्रतिबन्धकत्वमावश्यकम् , अंतिरिक्तप्रतिबध्यप्रतिबन्धकभावकल्पनाभियैव सींशालौकिकमानसानभ्युपगमादिति वाच्यम्, मानसप्रत्यक्षप्रयोजकवैजात्यस्य मानसेतरज्ञानजनकव्यावृत्तत्वाभ्युपगमे स्वोत्पत्तिद्वितीयक्षणोत्पादितमानसपरामर्शमनः संयोगनाशे प्राक्तनपरामर्शस्यैवाभावात्केनापि मनः संयोगेन तदानुमित्यनुत्पत्तिप्रसंगात्, त्रिचतुरादिक्षणबिलम्बेन तत्र स्मरणात्मकपरामर्शकल्पनाया अपि महागौरवग्रस्तत्वात् , तदापि संयोगो न मानसजनक इत्यस्य शपथप्रत्यायनोयत्वात्, किंचैवं जागरद्वितीयक्षणोत्पन्न निर्विकल्पकजन्यघटत्वादिविशिष्टज्ञानानुव्यवसायः षष्ठक्षणोत्पन्नमनःसंयोगान्तरेण सप्तमक्षणे स्यादिति क्षणत्रयापलापप्रसंगः / किंचैवं समानविषयत्वान्तर्भावेन प्रत्यक्षसामग्या अपि बलवत्त्वकल्पनाद्विशेषदर्शनोत्तरमनुमितिः प्रत्यक्षं वेत्येपि कथं विनिगमनीयम् / न च पूर्व तत्रानुमितिरेव पश्चात्तु सिद्धयाऽनुमितिप्रतिबन्धात् प्रत्यक्षमिति साम्प्रतम् , अनुमितिद्वयेष्टापत्या सिद्विप्रतिबन्धकत्वे मानाभावात्, मानसविशेषदर्शनस्थले उक्तवदनुपपत्तेश्चेति किमप्रकृतेन / यत्त ज्ञानस्य पूर्वमनुपस्थितत्वाज्जानामीत्यत्र विशेषणतया भानानुपपत्तिरिति, तदयुक्तम्, तस्यात्मवित्तिवेद्यत्वात्, अहं सुखोत्यस्यापि सुखं साक्षात्करोमोत्याकारत्वात् , यदपि प्रत्यक्षविषयतायामिन्द्रियसन्निकर्ष एव नियामक इति तदपि न, अलौकिकप्रत्यक्षविषयतायां व्यभिचारात्, लौकिकत्वस्य प्रत्यक्षविशेषणत्वं च तस्येन्द्रियसन्निकर्षजन्यत्वरूपतया इन्द्रियसन्निकर्षजप्रत्यक्षविषयतायामिन्द्रियसन्निकर्षनियामकत्वस्य प्रकृतापरिपन्थित्वात् , लौकिकत्वाख्यविषयताविशेषोऽपि नेन्द्रियसन्निकर्षमात्रप्रयोज्यः शंखादाविदं पीतरूपमिति दोषप्रभवप्रत्यक्षविषयतायां व्यभिचारात् / ___ वस्तुतश्चक्षुर्मनसोरप्राप्यकारित्वादोषाजन्यलौकिकप्रत्यक्षविषयतायामपि नेन्द्रियसन्निकर्षस्य नियामकत्वमिति स्मर्त्तव्यम् अभेदे कथं विषयत्वमिति चेद् ! यथा घटाभावे घटाभावविशेषणत्वम्