________________ आत्मख्यातिः [75 किंचेन्द्रियज प्रत्यक्षं सन्निकृष्टे विषये प्रवर्ततेऽतीतक्षणवर्तिनश्च ज्ञानस्य मनोलक्षणेन्द्रियसन्निकर्षो न युज्यते ततः कथं प्राचीनज्ञाने मानसप्रत्यक्षवार्ताऽपोति / व्यवसायनाशक्षणोत्पन्नव्यवसायान्तरे ज्ञानत्वविशिष्टबुद्धिरित्यप न रमणीयम्, तद्धेतोश्चक्षुःसन्निकर्षादेस्तदानीं नियतसन्निधिकत्वाभावात्, अनुमितिपाश्चात्यव्यवसायेऽनुमितित्वाभावात्पूर्वव्यवसोयविशेष्यकज्ञानस्य कथमप्यनुपपत्तेश्च / - एतेन ज्ञानं ज्ञानत्वं च निर्विकल्पके भासते ततो ज्ञानत्ववैशिष्टयं ज्ञाने चात्मनि भासत इति विशेष्ये विशेषणन्यायेन ज्ञानप्रत्यक्षमित्यपि निरस्तम्. अनुभूयमानविशिष्टवैशिष्टयविषयतापलापाच्च / यत्तु ज्ञानमभाव इव विशिष्टज्ञानविषय एवानुव्यवसायस्य विषयरूपविशेषणविषयकव्यवसायसाध्यत्वेन विशिष्टज्ञानसामग्रीसत्त्वात् , ज्ञानत्वमपि तत्र भासते सामग्रीसत्त्वात् , अंशे तत्सप्रकारकं निष्प्रकारकं चेति नरसिंहाकारं, तत्रैव विशिष्टं ज्ञानत्ववैशिष्टयं च भासते, अनुमित्यादौ च न तथाऽनुव्यवसायेऽनुमितित्वाभावादिति वस्तुतस्त्विति कृत्वा चिन्तामणिकृतोक्तं, तदसत् , सार्वत्रिकप्रकारं विना क्वाचित्कप्रकाराभिधानस्य प्रयासमात्रत्वात् , अभावप्रत्यक्षस्य घटत्वाद्यन्यतमविशिष्टविषयकत्वनियमवद् ज्ञानप्रत्यक्षे तन्नियमाभावात् , अहं सुखीतिवदहं ज्ञानवानिति विषयविनिर्मुक्तप्रतीतेः सार्वजनीनत्वात् , विषयविशिष्टज्ञानप्रत्यक्षस्यैव सन्निकर्षकार्यतावच्छेदकत्वकल्पनेन तदपलापेच महागौरवात्, ज्ञाने नृसिंहाकारतोपगमे विषयेऽपि तदावश्यकत्वेन स्याद्वादापाताच्च / नरसिंहकारज्ञाने ज्ञानत्वघटत्वप्रकारकत्वोभयाश्रयज्ञानवैशिष्टयधीन स्यादिति तु विषयनिरूप्यं हि ज्ञानं न तु विषयपरंपरानिरूप्यमित्यादिना मिश्रेण समाहितम् / यत्त स्वसंवेदने कृतिसमवायित्वादिरूपकर्तृत्वाद्यनवभास इत्युक्तं तदभिप्रायापरिज्ञानात् / ___ आश्रयत्वरूपकर्तृत्वस्य विषयत्वरूपकर्मत्वस्य विशेषणत्वरूपक्रियात्वस्य च दोषाकलंकितत्वात्, अधिकविषयकत्वेऽपि च व्यवसायस्यार्थविषयत्वेन च प्रवर्तकत्वमविरुद्धम्, इष्टतावच्छेदकप्रवृत्तिविषयवैशिष्ट्यावगाहिज्ञानत्वेन प्रवर्तकत्वात् / न चात्र प्रमेयमिति ज्ञानात्प्रवृत्यापत्तिरिष्टतावच्छेदके तद्भिन्ननिष्ठधर्माप्रकारकत्वविशेषणात्, न चेष्टतावच्छेदकप्रकारकज्ञानस्य मुख्यविशेष्यतया प्रवृत्तिहेतुत्वं तद जतमिदं द्रयामाते ज्ञानात्प्रवृत्तिवारणाय प्रवृत्तिविशेषध्यकत्वावच्छेदेनेष्टतावच्छेदकप्रकारकत्वस्य वाच्यत्वे इष्टतावच्छेदकविशेष्यकत्वावच्छेदेन प्रवृत्तिविषयप्रकारकत्वेनापि हेतुतायां विनिगमनाविरहादुभयबुद्धयोरुक्तेनैकरूपेण हेतुत्वौचित्यात् /