________________ 7] आत्मख्यातिः किंच ज्ञानजन्यतावच्छेदकं यत्किचिज्जन्यतावच्छेदकं यद्विषयत्वं तदवच्छेदेन प्रत्यक्षत्वं वाच्यम्, स्वविषयकत्वं च न तथा ज्ञानसामग्रया ज्ञानत्वस्यैव जन्यतावच्छेदकत्वात् विशेषसामप्रोजन्यतावच्छेदके च तस्यातिप्रसक्तत्वादेवाप्रत्यक्षादिति कथं तदवच्छेदेन प्रत्यक्षत्वम् / अथ वित्तेरवश्यवेद्यत्वात् स्वप्रकाशत्वं नो चेद् या वित्तिर्न वेद्यते तदधीनसत्त्वस्य विषयपर्यन्तस्यासत्त्वं स्यादिति चेत्, न सर्वासां वित्तीनां ज्ञानज्ञानत्वेनावश्यवेद्यत्वादिति पूर्वपक्षः / अत्रोच्यते-'जानामि' इति सार्वलौकिकं ज्ञानं पूर्वापरज्ञानकल्पनागौरवसहकृतं कर्तृकर्मक्रियावगाहि सत् स्वविषयत्वे प्रमाणम् / तदिदमुक्तं संमतिटीकाकृता-एकस्मादेव विषयावभाससिद्धेः किं द्वयकल्पनयेति / न च जानामोत्यत्र ज्ञानावमासेऽपि तद्विषयत्वानवभास इति वाच्यम्, अर्थविषयताया इव स्वविषयताया अपि प्रागनुपस्थितायाः प्रकारतया संसर्गतया वा ज्ञाने भानाभ्युपगमात्, ज्ञानस्येदं जानामीदं ज्ञानं जानामीत्युभयाकारत्वात् / आंशिकतद्भेदाच्चाभिलापभेदस्तस्य विवक्षाधीनत्वात्, एतेन स्वविषयत्वे सिद्धे गौरवसहकृतं ज्ञानगोचरताग्राहकं प्रत्यक्षं स्वप्रकाशंतायां प्रमाणं तेन च भानेन तस्य स्वार्थविषयत्वसिद्धिरित्यन्योन्याश्रय इति परास्तम, ज्ञानविषयत्वेनानुभूयमानस्यानुव्यवसायस्य व्यवसायात्मकत्वकल्पन एव लाघवव्यापारात्, इत्थं चार्थविषयताया ज्ञाने स्वविषयतानयत्यसिद्धेः न चैवमनुव्यवसितनष्टज्ञानानभ्युपगमादुपेक्षात्मकज्ञानासिद्धिः, धारणानात्मकत्वेनैव *ज्ञानार्णवादावुपेक्षात्वव्यवस्थापनादिति / ___ परप्रकाशवादे तु ज्ञानस्य प्रत्यक्षानुपपत्तिरेव / न च ज्ञानत्वनिर्विकल्पकजन्यज्ञानक्षणे व्यवसायस्याभावेऽपि पूर्व तत्सत्वात्तदा ज्ञानत्वप्रकारकं व्यवसायप्रत्यक्षमुपपद्यते, ततो विशेषण ज्ञानादात्मनि ज्ञानप्रकारकधोः विशेषणं च न विशिष्टप्रत्ययहेतुस्तत्तां विनापि तद्बुद्धेः प्रत्यभिज्ञादर्शनादिति वाच्यम्, प्रत्यक्षे विषयस्य स्वसमयवृत्तित्वेनैव हेतुत्वात्, अन्यथा विनश्यदवस्थघटचक्षुःसन्निकर्षात् घटनाशक्षणे घटप्रत्यक्षप्रसंगात्, ज्ञानस्यातीतत्वे न जानामीति वर्तमानज्ञानानुपपत्तेश्च. न च वर्तमानत्वेन स्थूलउपाधिर्भासते न तु क्षणस्तस्यातीन्द्रियत्वादिति वाच्यम्, स्थूलोपाधेरपि नियमतो भासकसामग्रयभावात् संसर्गशब्दादिना तु क्षणस्यापि सुज्ञानत्वात् स्थूलोपाधिमादायैव वर्तमानत्वसमर्थने च घटपूर्वसमये इदानी घटो भवतीति व्यवहारप्रामाण्यप्रसंगात् / नयभेदेनेष्टापत्तिश्चैकान्तवादिभिर्दुष्करा / किंचाहं घटज्ञानवानितिवन्मयि घटज्ञानमित्यात्मविशेषणको ज्ञानविशेष्यकोऽप्यनुभवो नेच्छामात्रेणापह्नोतुं शक्यः तत्र च विशेष्यसन्निकर्षस्यापि पूर्व सत्त्वमपेक्षितमिति तं विना कथं तत्प्रत्यक्षम् ? तदिदमुक्तं-स्याद्वादरत्नाकरे / * स्वविरचितोऽयं प्रन्थः /