________________ [69 आत्मख्यातिः ण्येऽपि लौकिकविषयतासंबन्धाभावादेवेश्वरसाक्षात्कारव्यभिचाराभावात् ।तत्र लौकिकविषयताभ्युपगमेऽपि विनश्यदवस्थविषयजन्य लोकिकसाक्षात्कारस्थितिझणे व्यभिचारवारणाय लौकिकविषयत्वावच्छिन्नोत्पत्तेरेव कार्यतावच्छेदकसम्बन्घत्वेन तत एवेश्वरसाक्षात्कारे व्यभिचाराभावाच्च / कार्यत्वे सति कार्यतावच्छेदकधर्मवत्त्वस्यैव च तज्जन्यत्वव्यवहारनियामकतया न तत्र विषयजन्मत्वव्यवहार इति दिग् / एतेन क्षणिकात्मविशेषगुणत्वेन न योग्यता निर्विकल्पकजीवनयोनियत्नसाधारण्यात् , नापि तादेतरत्वनिवेशे दोषाभावो निर्विकल्पकान्यत्वजीवनयोनियत्नान्यत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहात् , क्षणिकत्वस्य चतुर्थक्षणवृत्तिध्वंस प्रतियोगित्वरूपत्वात्, क्षणस्य स्वत्वघटितत्वेनाननुगमाच्च, नापि ज्ञानेच्छादिवृत्तिर्जातिविशेष एव मनो-योग्यतावच्छेदको ज्ञानत्वादिना सांकर्येण तादृशजात्यमिद्धेः / न च तादृशजातेनिर्विकल्पकवृत्तित्वेऽपि ससम्बन्धि पदार्थनिरूपणस्य सम्बन्धितावच्छेदकप्रकारकज्ञानाधीनत्वेन तद्विरहादेव तस्य विषयोपरागेणाज्ञानं तदनुपरागेण च तद् ज्ञानं ज्ञानभानसामग्रया विषयभानसामग्रोनियतत्वादेव नेति मिश्रमतं युक्तम्, निर्विकल्पकानन्तरव्यवसायस्य सम्बन्धितावच्छेदकघटत्वादिप्रकारकस्य सत्वान्निर्विकल्पकाध्यक्षापतेः / न च प्रत्यक्षे स्वसमयवृत्तित्वेन विषयस्य हेतुत्वान्नोक्तदोष इति वाच्यं, गौरवेण स्वसमयवृत्तित्वे. नाहेतुत्वात्, न चानुव्यवसायस्य प्रमात्वनियमाद् घटत्वप्रकारकत्वप्रकारकानुव्यवसायस्य निर्विकल्पकविषयत्वे भ्रमत्वापातात्तादृशप्रमासामग्रोभूतगुणस्य निर्विकल्पकविरोधित्वादेव न तत्प्रत्यक्षमिति वाच्यम्, तादृशगुणस्यात्ममनोयोगविशेषस्य वा विरोधित्वमित्यत्र विनिगमनाविरहातादृशप्रतिबध्यप्रतिबन्धकभावकल्पनापेक्षया तदयोग्यत्वकल्पनाया एवौचित्यात् / नापि भेदविशेषस्तथा प्रतियोग्यननुगमे तदननुगमादखण्डभेदस्य चासिद्धेरिति नानुगतरूपेण योग्यतास्तीति परास्तम्, परप्रकाशेऽनवस्थानात् स्वप्रकाशसिद्धिरित्यपि न युक्तं स्वप्रकाशत्वस्य परिशेषानुमे यतया तदनुमितिस्वप्रकाशताया अपनुमानान्तरगम्यतयाऽनवस्थासाम्यात्, विषयान्तरसंचारादिना प्रतिबन्धेन तद्भगस्याप्युभयत्र साम्यात् / किंचैवं प्रत्यक्षत्वं जातिर्न स्यादनुमित्यादावप्यंशतो वृत्तित्वात् / न चेष्टापत्तिः स्वविषयत्वे ज्ञानानपेक्षत्वस्यैव प्रत्यक्षत्वस्याभ्युपगमादिति वाच्यम्, एकत्र ज्ञानापेझानपेक्षयोर्विरोधात् / न च भ्रमस्य यथाधर्मविषयकत्वावच्छेदेन दोषापेक्षा धर्मिविषयकत्वावच्छेदेन च तदनपेक्षा तथानुमित्यादौ वह्नयादिविषयतावच्छेदेन ज्ञानापेक्षा स्वविषयतावच्छेदेन च न सेति वह्नयादिविषयतावच्छेदेन परोक्षत्वं स्वविषयतावच्छेदेन च प्रत्यक्षत्वमिति वाच्यम् दोषापेक्षे भ्रमे तदनशानभ्युपगमात्, धयंशे स्वभावादेवाभ्रमत्वात् /