________________ आत्मख्यातिः _____ अपि चाहमिदं जानामोत्यत्रेदत्वविशिष्टज्ञानवैशिष्टयमात्मनि भासते, न च स्वप्रकाशे तदुपपत्तिः ज्ञानस्य पूर्वमज्ञातत्वेन प्रकारत्वानुषपत्तेः / न चाभावत्वाभानेऽप्यभावत्वविशिष्टबोधात्तस्तत्र व्यभिचारवारणाय समानवित्तिवेद्यभिन्नविशेषणज्ञानत्वेन विशिष्टबुद्धौ हेतुत्वान्न दोष इति वाच्यं यद्धि येन विना न भासते तत्तत्समानवित्तिवेधं तद्ग्रहसामग्रोनियतग्रहसामग्रीकमित्यर्थः / न च ज्ञानाभाने आत्माभानमित्यस्ति तदभानेऽपि 'अहं सुखी' इति भानस्य सर्वसिद्धत्वात् / अपि च प्रत्यक्षविषयतायामिन्द्रियसन्निकर्षस्य नियामकत्वात्कथं तदनाश्रयस्य स्वस्य प्रत्यक्षत्वं ? कथं वा प्रत्यक्षाजनकस्य प्रत्यक्षविषयत्वं प्रत्यक्षविषयतायास्तज्जनकत्वव्याप्तत्वात् / न च संस्कारस्मृत्याधुपनीततत्तादौ व्यभिचारः अनागतगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यप्रत्यक्षविषयतायास्तथात्वात्, न च विद्यमानत्वसामान्यलक्षणाजन्यप्रत्यक्षविषये व्यभिचारवारणायानागतगोचरत्वं परित्यज्याजनकगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यप्रत्यक्षविषयतायास्तत्वोक्तो लाधवात्प्रत्यासत्तिजन्यत्वभागमपहायाजनकविषयसाक्षात्कारान्यप्रत्यक्षविषयताया एव प्रत्यक्षजनकत्वनियमकल्पने स्वस्याजनकत्वेन स्वविषयतायां जनकत्वस्यानियामकत्वेन स्वविषयता न बाधितेति मिश्रकल्पना युक्ता, परमते ज्ञानमात्रस्यैवाजनकविषयत्वेन यथाश्रुतेऽप्रसिद्धेरजनकवृत्तिविषयतान्यसाक्षात्कारविषयताप्रत्यक्षजनकत्वनैयत्यकल्पने साक्षात्करोमीत्यनुभवसिद्धलौकिकविषयताया एव तथास्वकल्पनौचित्यात् / किंच लौकिकप्रत्यक्षविषयत्वेन लाघवादिन्द्रिययोग्यता नेच्छात्वरूपत्वादिना, लौकिकप्रत्यक्षविषयत्वं चोपलक्षणं न तु विशेषणं तेन प्रत्यक्षपूर्व प्रत्यक्षाविषयत्वेऽपि न क्षतिः / अयमों, विषयस्य प्रत्यक्षे कारणता लाधवाद्विषयत्वेनैव, विषयत्वं च लौकिकविषयतासम्बन्धेन साक्षाकारवत्त्वम्, सम्बन्धेनेत्यन्तं गुरुत्वादिव्यावर्तनाय, साक्षात्कारत्वेन कार्यता, कार्यतावच्छेदकः सम्बन्धो लौकिकविषयता, तेनातीतादिविषय कालौकिकप्रत्यक्षेऽव्यभिचारो, न च तद्वारणाय लौकिकत्वं कार्यतावच्छेदककोटावेव दीयतामिति वाच्यम् लौकिकालौकिकसम्हालम्बने व्यभिचारवारणाय सम्बन्धमध्य एव तन्निवेशावश्यकत्वात्, कार्यतावच्छेदकसम्बन्धेन कार्यस्य कारणतावच्छेदकत्वे च बाधकाभावः, केवलविशेष्ये विशिष्टान्योन्याभावानभ्युपगमात्प्रतियोग्यवृत्तित्वेन कारणताशरीरेऽन्योन्याभावविशेषणाद्वा साक्षात्कारविशिष्टस्य सर्वत्र पूर्वमसत्त्वेऽपि न व्यभिचारः / न च तथापि लौकिकविषयतया ज्ञानवत्त्वानुभवत्त्वमादाय विनिगमनाविरहः कारणतावच्छेदकस्येव तदवच्छेदकतावच्छेदकस्यापि व्यापकधर्मत्वेऽन्यथासिद्धेविनिगमकत्वात् / न च साक्षात्कारत्वस्य नित्यवृत्तित्वान्न जन्यतावच्छेदकत्वम् तद्धर्माश्रयीभूतयत्किंचियक्त्यव्यवहितपूर्वसमयान्यत्वं यद्धर्मावच्छिन्नवन्निष्ठान्योन्याभावप्रतियोगितानवच्छेदकं तदन्यो धर्म एव तद्धर्मावच्छिन्नं प्रति नियतपूर्ववर्तितावच्छेदक इति नित्यानित्यवृत्तेरपि धर्मस्य जन्यतावच्छेदकत्वसंभवात्प्रकृते नित्यसाधार