________________ आत्मख्यातिः घटचक्षुःसन्निकर्षस्य हेतुत्वान्न पीतावयवावच्छेदेन सन्निकर्षे नीलादिचाक्षुषापत्तिरिति, तन्न, तथाहेतुतायामतिगौरवात्, तत्कपालावच्छिन्नप्रत्यक्ष एव तत्कपालावच्छिन्नसन्निकर्षहेतुत्वोचित्यात्, अन्यथा पीतकपालावच्छेदेन सन्निकर्षे पीतकपालविषयकनीलप्रत्यक्षस्य बलादापत्तेः, पीतकपालावच्छिन्नसंयोगप्रत्यक्षनिष्ठकार्यतावच्छेदकाक्रान्तत्वातस्य, तत्कार्यतावच्छेदककोटौ भेदप्रतियोगितया पोतान्यमेवि निविशते न नीलान्यमिति चेत्, न, उभयावच्छिन्नदीर्घतन्तुसंयोगप्रत्यक्षानुरोधेनोभयान्यस्यापि प्रतियोगिकोटौ निवेशनीयत्वादिति दिग् / तस्मादवस्थितद्रव्यस्य चित्रादिविशिष्टवर्णपरिणाम एव पाकाद्यधीन इति न तदन्यथानुपपत्त्या परमाणुपर्यन्तो विनाशो न वा सर्वे विनाशाः परमाण्वन्ताः किन्तु परमाणोरर्थान्तरगमनलक्षणो विनाशः स्थौल्यादिपर्यायेनोत्पत्ति व्यतया च ध्रौव्यमिति तद्वदेवात्मनो द्रव्यंपर्याय रूपस्य नित्यानित्यत्वं सुव्यवस्थितम् / घटज्ञ एवाहं पटज्ञीभूत इति स्वसंवदेनमप्यात्मनस्तथात्वे प्रमाणम्, अत्र च्चिप्रत्ययार्थों ध्वंस उत्पत्तिश्न, तत्रोत्पत्तौ प्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नत्वसम्बन्धेनान्वयो ध्वंसे समभिव्याहृतपदार्थस्यान्वयप्रतियोगितावच्छेदकावच्छिन्नत्वसम्बन्धेन, धात्वर्थश्च ध्रौव्यमिति घटज्ञस्वावच्छिन्नध्वंसाभिन्नपटज्ञानत्वावच्छिन्नोत्पत्त्यवच्छिन्नध्रौव्याश्रयोऽहमिति शाब्दबोधः / - विप्रत्ययस्याभेदमात्रार्थत्वे अहं द्रव्यीभूतस्तन्तुर्द्रव्यभूत इत्याद्यपि स्यादिति भावनीयम् / ज्ञानस्य स्वसंविदितत्त्वम् ननु स्वसंवेदनमात्मनस्तथात्वे प्रमाणमिति यदुक्तं तद्वयं न सहामहे ज्ञानस्य * स्वसंविदितत्वासिद्धेः / न च सर्वज्ञानानां घटमहं जानामोत्याद्याकारत्वात्प्रत्यक्षेणैव स्वविषयत्वसिद्धिस्तत्र ज्ञाने घटविषयत्वग्रहेऽपि स्वस्य ज्ञानविषयत्वाग्रहात् , स्वस्य स्वाविषयत्वेन स्वविषयत्वाविषयत्वात्अन्यथा घटज्ञानज्ञानवानित्याकारप्रसंगात् / किंच 'घटमहं जानामि' इति ज्ञाने क्रियायाः कृतेर्वा समवायित्वलक्षणमात्मनः कतत्वं, परसमवेतक्रियाफलशालित्वं करणव्यापारविषयत्वं वा विषयस्य कर्मत्वं धात्वर्थत्वं कृतिजन्यत्वं वा ज्ञानस्य क्रियात्वमयोग्यत्वान्न भासत इति कर्तृकर्मक्रियावगाहित्रिपुटीप्रत्यक्षान्न स्वसंविदितत्वसिद्धिः / किं चार्थविषयत्वेनैव ज्ञानस्य प्रवर्तकत्वं न तु स्वविषयत्वेनापि गौरवादित्यर्थमात्रविषयत्वं व्यवसायस्य / *अयं ज्ञानस्य स्वसंविदितत्वप्रतिपादकः सन्दर्भो न्यायालोके [74-10-2), स एव शास्त्रवार्तासमुच्चयस्य स्याद्वादकल्पलतायामल्पभेदेन [पृ.४१-७८] वर्तते /