________________ आत्मख्यातिः न च चित्रत्वनिष्ठविषयतया चित्रत्वग्रहे स्वविशेष्यसमवेतसमवेतसमवेतत्वसम्बन्धेनोक्तस्य हेतुत्वे घटावयवगततद्ग्रहाच्छुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्रूपचित्रत्वप्रत्यक्षापत्तिरिति वाच्यम्, विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव चरमसमवेतत्वविनिर्मुक्तसम्बन्धेन तद्धेतुत्वात्, न च नीलेतररूपत्वाधवच्छिन्नप्रकारताकग्रहो न हेतुः,नीलत्वपीतत्वादिनाऽवयवगतनीलपीतादिग्रहेऽप्यवयविचित्रप्रत्यक्षादिति वाच्यम् विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तद्ग्रहस्यापि हेतुत्वात् / ____वस्तुतो नीलेतररूपत्वादिव्याप्यत्वेन नीलेतररूपत्वपीतत्वाधनुगमान्न क्षतिरिति चेत्, न, व्यणुकचित्ररूपाग्रहे चतुरणुकचित्रप्रत्यक्षानुपपत्तेः, चित्रावयवारब्धे चित्रग्रहेऽवयवविषयकनीलेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्नप्रकारताकग्रहस्यैव हेतुत्वात् / . दि च नीलेतररूपपीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्यावयवनीलादिगतनीलत्वादियहप्रतिबन्धकदोषाभावानां च चित्रप्रत्यक्षे हेतुत्वमतस्त्रसरेणुचित्रस्यापि चक्षुषा ग्रह इत्युद्भाव्यते, तदाऽनन्तहेतुहेतुमद्भावकल्पनागौरवाच्चित्रत्वे समानाधिकरणनानारूपग्रहव्यङ्गयत्वकल्पनमेव ज्यायो, नह्येवं गौरवम्, चित्रत्वग्रहे सामानाधिकरण्येन रूपविशिष्टरूपग्रहत्नैव हेतुत्वात् / न चैवमनेकरूपधर्म एव चित्रत्वमित्यागतं नानावयवावच्छिन्नपर्याप्तवृत्तिकस्यैकस्य चित्रस्याप्यनुभवसिद्धत्वात्, अत एवैकावयवावच्छेदेन चित्राभावप्रतीतिरपीत्येकानेकचित्रद्रव्यस्वभावभ्युपगमं विना न काप्युपपत्तिः / किंच नीलेतररूपादिषट्कस्यैव चित्ररूपे हेतुत्वमित्येतावतैव नोपपत्तिरवयवगतेत्कृष्टापकृष्टनीलाभ्यामपि चित्रसंभवात्, ते चोत्कर्षापकर्षा अनन्ता एव, विगतभविष्यद्भिः पर्यायैरिव प्रत्युत्पन्नपर्यायैरपि भेदाभेदौ द्रव्यस्य संमतौ भावितौ तथाहि दव्वं जहा परिणयं, तहेव अच्छित्ति तंमि समयमि / विगयभविस्सेहि उ, पज्जएहिं भयणा विभयणाया // [सन्मति- ] द्रव्यं चेत्समवेत न वा यथा तदाकारेण तदाकारार्थग्रहणतया वा परिणतं तस्मिन् वर्तमानसमये तत्तथैवास्ति, इतिरुक्तिसमाप्त्यर्थः, विगतभविष्यद्भिस्तु पर्यायैस्तु भजना कथंचिदेकत्वं, विभजना कथंचिन्नानात्वं, वा शब्दः कथंचिदर्थः, तदेवोपपादयति