________________ [63 आत्मख्यातिः परे तु चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुत्वं नीलपीतोभयारब्धवृत्तिचित्रत्वावान्तर वैलक्षण्यावच्छिन्ने च नीलपीतोभयत्वेन हेतुता, एवं तत्रितयारब्धे तत्त्रितयत्वेन, नीलपीतोभयादिमात्रारब्धे नीलपीताद्यन्यतरादीतररूपत्वेन प्रतिबन्धकत्वान्न त्रितयारब्धचित्रवति द्वितयारब्धचित्रप्रसंगः, न चैवं गौरवं प्रामाणिकत्वात् / / - वस्तुतः समवायेन द्वितयजचित्रादौ स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेनैव द्वितयादीनां हेतुत्वं, नातः प्रागुक्तप्रतिबन्धकत्वकल्पनागौरवमित्याहुः / उच्छृङ्खलास्तु नीलपीतरक्ताधारब्धघटादौ नीलपीतरक्तादिभ्य एवं नीलपीतोभयजपीतरक्तोभयजनीलरक्तोभयजतत्त्रितयजादीनामुत्पत्तिः सर्वेषां सामग्रीसत्वात्, चरमं व्याप्यवृत्ति इतराणि त्वव्याप्यवृत्तीनीति विशेषः / न चकमेव तदस्त्विति वाच्यं तत्तदवयवद्वयमात्रावच्छेदेनेन्द्रियसन्निकर्षे विलक्षण विलक्षणचित्रोपलम्भात्, न च नीलपीतादिविशिष्टचित्रेणावान्तरचित्रप्रतीतिसंभवः, अखण्डेन सामान्यचित्रत्वेनाखण्डावान्तरचियत्वानां सामानाधिकरण्यप्रत्ययात्, न चेदेवं तदा नीलाद्यविशेषिता ये नीलादिभेदास्तत्तदाश्रितरूपंसमुदायेनानुगतचित्रप्रतीतेत्रित्वं अनीलादिसमुदायेन नीलाद्यनुगतप्रतीतिसंभवान्नीलत्वादिकमपि च विलीयेतेति, जातेरव्याप्यवृत्तित्वे पुनरस्त्वेकमेव तत्, किंचिदवच्छेदेन तत्र नीलत्वपीतत्वरक्तत्वविलक्षणचित्रत्वादिसंभवादित्याहुः / तदिदमखिलमसंबद्धं चित्रपटादौ चित्रैकरूपप्रति पत्तेरनुभवविरुद्धत्वात्, शुक्लादिरूपाणामपि साक्षात्सम्बन्धेन निर्विगानं तत्र प्रतीतेः, प्रत्येतव्यकल्पनागौरवेण प्रतीतिबाधे रूपादेस्त्रुटिमाशगतत्वापत्तेस्तदिदमाहुः सम्मतिटीकाकृतः न च चित्रपटादावपास्तशुक्लादिविशेष रूपमात्रं तदुपलम्भान्यथानुपपत्त्याऽस्तीत्य भ्युपगन्तव्यम्, कथं ? चित्ररूपः पट इति प्रतिभासाभावप्रसक्तेरिति / *एकाधिकरणावच्छिन्नशुक्लादिसमुदाय एव कथंचित्समुदायातिरिक्तश्चित्रमिति तत्र शुक्लाद्यग्रहे चित्राग्रहप्रसक्तिरित्येतत्तात्पर्यम् / __किं चैवं शुक्लावयवावच्छेदेनापि चित्रोपलम्भः स्यात् / अथ चित्रत्वग्रहे परम्परयावयवगतनीलेतररूपपीतेतररूपादिमत्त्वग्रहो हेतुः, अत एव द्वयणुकचित्रं चक्षुषा न गृह्यत इत्याचार्याः . *एकाधिकरण्यमिति भावः /