________________ प्रात्मख्यातिः [62 . *अथ व्याप्यवृत्तिरूपस्याप्यवच्छेदकत्वस्वीकारादवच्छेदकतया नीलादिकं प्रत्येव समवायेन नीलादेर्हेतुत्वम्, न चैवं घटेपि तया नीलाधापत्तिः अवयवनीलत्वेन द्रव्य विशिष्टनीलत्वेन वा तद्धेतुत्वात् न, च नीलमात्रपीतमात्रकपालिकाद्वयारब्धनीलपीतकपाले तदापत्तिः नीलकपालिकावच्छिन्नतदवच्छेदेन तदुत्पत्तेरिष्टत्वात्, अस्तु वा तया नीलादौ नीलेतररूपादेरेव विरोधित्वमिति चेत्, न, नीलादौ नीलोतररूपादिप्रतिबन्धकतयैवोत्पत्ती तत्र नीलादिहेतुतायां मानाभावेन नानारूपवदवयवारब्धे चित्ररूपस्यैव प्रामाणिकत्वात् व्याप्यवृत्तेरवच्छेदकायोगात्, नीलेतरादौ नीलादेः प्रतिबन्धकत्वेऽविनिगमाच्च / __ यदि च स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायेन नीलरूपं हेतुरुपेयते, नीलपीताधारब्धस्थले च स्वाश्रयसम्बन्धेन नीलरूपस्य पीतकपालेऽपि संभवेन व्यभिचारात् उक्तसम्बधेन हेत्वभावादेव न तत्र नीलोत्पत्तिरिति विभाव्यते, तदा नीलं प्रति नोलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमित्यतिलाघवम्, एवं सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतराभावः समानावच्छेदकत्वप्रत्यासत्या नीलहेतु रित्यपि निरस्तं सामानाधिकरण्यस्य व्याप्यवृत्तित्वेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकनीलेतराभावासत्त्वाच्चेति बहवः संप्रदायं समादधते / केचित्तु विजातीयचित्रं प्रति स्वविजातीयत्वस्वसंवलितत्वोभयसम्बन्धेन रूपविशिष्ट रूपत्वेनैव हेतुत्वम् स्ववैजात्यं च चित्रत्वातिरिक्तं यत्स्ववृत्ति तद्भिन्नधर्मसमवायित्वम् स्वसंवलितत्वं च स्वसमवायिसमवेतद्रव्यसमवायिवृत्तित्वम्, न च स्वत्वाननुगमः सम्बन्धमध्ये तत्प्रवेशादित्याहुः / परे तु नीलपीतोभयाभावपीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नप्रतियोगिताकानां समवायावच्छिन्नप्रतियोगिताकानां च विजातीयविजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताक एकोऽभावश्चित्रत्वावच्छिन्न प्रति हेतुरित्याहुः / रूपत्वेनैव चित्रं प्रति हेतुत्वं कार्यसहभावेन चित्रेतराभावस्य हेतुत्वेनानतिप्रसंगादित्यन्ये / ___ * अयं नयोपदेशेऽपि /