________________ आत्मख्यातिः च स्वंसमवायिसमवेतत्वसम्बन्धेन नीलादीनां हेतुत्वम्, व्याप्यवृत्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीलादौ त्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेननीलेतररूपादीनां हेतुत्वमित्यष्टादशकार्यकारणभावाः, चित्ररूपेऽप्येतावन्त एव, चित्ररूपे नीलेतररूपादिषट्कस्य, नीलादौ नीलादिषट्कस्य हेतुत्वानीलेतरादिषट्कस्य नीलादौ प्रतिबन्धकत्वाच्चेत्याधिक्याभावात, वस्तुतोऽवच्छेदकतया नीलादावुक्तसम्बन्धेन नोलेतररूपविशिष्टनीलत्वादिनैव हेतुत्वम्, न च नीलेतरत्वाद्यवच्छिन्नं प्रति नील विशिष्टनीलेतरत्वादिना हेतुत्वेन विनिगमकाभावः, नीलत्वापेक्षया नीलेतरत्वस्य गुरुत्वात्, इत्थं चाभिनिष्कर्षेऽस्माकं द्वादशैव कार्यकारणभावा इति लाघवादित्याहुः, चित्ररूपस्वीकारपक्षेऽपि नोलादौ नीलेतरादिप्रतिबन्धकत्वेनैव शुक्लावयवमात्रारब्धे नीलाद्यनुत्पत्तिनिर्वाहात् नीलादौ नीलादिहेतुत्वाकल्पनात् कार्यकारणभावसंख्यासाम्यात्, अव्याप्यवृत्तिनानारूपतत्प्रागभावध्वंसादिकल्पने परम्परस्यैव गौरवात् / किंचाव्याप्यवृत्तिरूपपक्षेऽवच्छेदकतासम्बन्धेन रूपे उत्पन्ने पुनस्तेनैव सम्बन्धेनाबयवे रूपोत्पत्तिवारणायाऽवच्छेदकतासम्बधेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूप प्रतिबन्धक कल्पनीयमिति गौरवम् / न चावयविनि समवायेनोत्पद्यमानमेवावयवेऽवच्छेदकतयोत्पत्तुमर्हतीत्यवयविनि रूपस्य प्रतिबन्धकस्य सत्त्वेन रूपसामान्याभावादेव नावयवेऽवच्छेदकतया तदा रूपोत्पत्त्यापत्तिरिति वाच्यम्, एवं ह्यवयविनिष्ठरूपाभावोऽवच्छेदकतासम्बन्धेन रूपं प्रति हेतुर्वाच्यः. तथा च नानारूपवत्कपालारब्धघटस्य नीलरूपादेर्नीलकपालिकावच्छेदेनानुत्पत्तिप्रसंगात्तदवयविाने कपाले रूपसत्त्वात् / अपि च नीलपीतवत्यग्निस योगाकपालनीलनाशात्तदवच्छेदेन रक्तं न स्यात् समवायेन रूपं प्रति तेन रूपस्य प्रतिबन्धकत्वात्, तदवच्छिन्नरूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्वकल्पने चातिगौरवम् / / ___ अथावच्छिन्ननीलादौ नीलाभावादिषट्कमवयवगतमवयविगतं च हेतू रक्तनीलारब्धे रक्तनाशकपाकेन व्याप्यवृत्तिनीलोत्पत्तौ चावयविनि नीलाभावाभावान्नावच्छिन्ननी लोत्पत्तिः, केवलनीले पाकेन क्वचिद्रक्तोत्पत्तौ च प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत्, न, नीलपीतश्वेताद्यरब्धे श्वताद्यवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशेन तत्तदवच्छिन्ननानानीलकल्पनापेक्षयैकचित्रकल्पनाया एव लघुत्वात् /