________________ आत्मख्यातिः तीयतेनःसंयोगस्य हेतुत्वम् पाकरूपोभयजन्ये विजातीयचित्रे चभियोरेव, रूपमात्रजातिरिक्त एव वा विजातीयतेजःसंयोगो हेतुः फलबलेन वैजात्यकल्पनात् / अग्निसंयोगजमात्रातिरिक्ते रूपहेतुताया वक्तुममशक्यत्वादुभयस्थले नीलेतरादिसमानाभावादिति नैयायिकसंप्रदायवृद्धाः।। नव्यास्तु चित्रपटेऽव्याप्यवृत्तीन्येव नीलपीतादीनि नानारूपाणि, एक रूपमिति प्रतीतेरेको धान्यराशिरितिवत्समूहैकत्वविषयत्वात् / सविषयावृत्तिव्याप्यवृत्तिवृत्तिजातेरव्याप्यवृत्तिवृत्तित्वविरोधस्त्वप्रामाणिक एव अत एव लोहितो यस्तु वर्णेन, मुखे पुच्छे च पाण्डुरः / श्वेतः खुरविषाणाभ्यां, स नीला वृष उच्यत // इति स्मृतिरप्युपपद्यते / न चाव्याप्य-वृत्तिनीलादिकल्पने गौरवम् तथाहि-अवच्छेद कतासम्बन्धेन नीलादिक प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वं वाच्यम, अन्यथा पीतावयवावच्छेदेन नीलोत्पत्तिप्रसंगात्, न च नीलस्य स्वाश्रयावच्छेदेन नीलजनकत्वस्वाभाव्यादेव न तदापत्तिरिति वाच्यं, विनैतादृशप्रतिबध्यप्रतिबन्धकमावं तथा स्वाभाव्यानिर्वाहात् / ननु समवायेन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चापादकाभाव इति चेत्,न, समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वात् / * एवं च नीलादौ नीलेतररूपादीनां नीलेतररूपादौ वा नोलादीनां प्रतिबन्धकत्वे विनिगमकाभावो मम तु नीलेतररूपादौ नीलादीनां न प्रतिबन्धकत्वं नीलपीतारब्धे नीरूपत्वप्रसंगस्य बाधकस्य सत्त्वादिति वाच्यम्, ममापि नीलत्वादिकमेव प्रतिबध्यतावच्छेदकं न तु नीलेतररूपत्वादिकं गौरवादिति वक्तुं शक्यत्वात्, न च नीलत्वेन प्रतिबन्धकत्वं नतु नीलेतरत्वेन गौरवादित्येव किं न स्यादिति वाच्यम्, प्रतिबन्धकताक्च्छेदकगौरवस्यादोषत्वात् / अस्तु वाऽवच्छेदकतया नीलादौ समवायेन नीलादोनामेव हेतुत्वम्, न च नानारूपवत्कपालारब्धघटनीलस्य तत्कपालावच्छेदेनोत्पत्तिप्रसंगः केवलनीलत्वादिनैव तद्धेतुत्वात् / न च केवलत्वं नीलाभावासमानाधिकरणत्वमिति गौरवम्, अनवच्छिन्नसमवायेन नीलादिहेतुत्वस्यैव तदर्थत्वात् / समवायेन नीलादौ * नव्यमते अवच्छेदकता सम्बन्धेन नीलादिक प्रति समवायसम्बन्धेन नीलेतररूपादीनां प्रतिबन्धकत्वाभ्युपगमे सतीत्यर्थः।