________________ आत्मख्यातिः परिणामस्वीकारात् केवलनीले पीतादिजनकपाके चावच्छिन्नपरिणामस्यैव जननात् अनन्तनीलादिनाशोत्पत्तितद्धेतुत्वादिकल्पनापेक्षयोक्तपरिणामकल्पन एव लाघवात् / अत एव चित्रव्यवहारोऽप्येकानेकरूपविशिष्टद्रव्यपरिणामादेव / अन्यथा कथमप्यनुपपत्तेः। तथा हि नीलं नीलान्यरूपासमवायिकारणं न वेति चित्ररूपे विप्रतिपत्तिः, विधिकोटिः सामानाधिकरण्येन निषेधकोटिरवच्छेदकावच्छेदेन, तेन नांशतो बाधः सिद्धसाधनं वा / - यत्तु नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकं नवेति विप्रतिपत्तिरिति तन्न, नीलरूपासमवयिकारणकस्य नीलस्य पक्षत्वे बाधात्, चित्ररूपस्य पक्षत्वे आश्रयासिद्धेः / यदपि नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्व 'पीतरूपासमवायिकारणकवृत्ति नवेति केषांचिद्विप्रतिपत्युद्भावनम्, तदपि न, विशिष्टस्य विशिष्टाधेयताया वा अनतिरिक्तत्वादिति दिग् / तत्र "नानारूपवदवयवारब्धेऽवयविनि नीलपीतादिभिरेकं संभूय चित्रं रूपमारभ्यते, न च सामग्रीसत्त्वान्नीलादिभिर्नीलादेरपि तत्र जननापत्तिः। अगत्या नीलेतररूपादेर्नीलादिकं प्रति प्रतिबन्धकत्वकल्पनात् / प्रतिबन्धकतावच्छेदकः सम्बन्धः स्वसमवायिसमवेतत्वं प्रतिबध्यतावच्छेदकश्च समवायः, चित्रत्वावच्छिन्नेऽपि नीलेतरपीतेतररूपादिनैव हेतुता तेन न. केवलनीलकपालारब्धे चित्रप्रसंगः / / ___ यत्त्ववयवनिष्ठनीलाभावादिषट्कस्यैव चित्रं प्रति हेतुत्वमिति, तन्न, नीलपीतोभयकपालारब्धे घटे पाकनाशितावयवपीतस्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तेः, न च कार्यसहभावेन नीलाभावादीनां तद्धेतुत्वादयमदोषः, नीलपीतश्वेतत्रितयकपालारब्धे पीतश्वेतयोः क्रमेण नाशे श्वेतनाशकालेऽपि तदापत्तेरिति, पाकजचित्रे च न व्यभिचारः, पाकादवयवनानारूपोत्पत्त्यनन्तरमेवावयिविनि चित्रस्वीकारात् / पाकजचित्रस्वीकारे च विजातीयचित्रं प्रति नीलेतरत्वादिना हेतुता अग्निसंयोगजचित्रे चावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताका नीलजनकाग्निसंयोगादेरभावा रूपजनकविजातीयाग्निसंयोगाश्च हेतवः / अस्तु वा तेजःसंयोगमात्रजन्ये विजातीयचित्रे विजा*उपाध्यायः सर्वत्र 'दिगू प्रयोग एव स्वोकृतः /