________________ आत्मख्यातिः नीलोत्पत्त्यसंभवात्, पाकजनीले पाकजनीलस्यैव विरोधित्वेन तदुपपादनेऽपि स्वस्वसामग्रीप्रभवावच्छिन्ननीलद्वयापत्तेः अवच्छिन्ननीलादौ नीलाभावादिषट्कस्यावयवगतस्यावयविगतस्य च हेतुत्वात्। तत्र पाकजनीलस्यानवच्छिन्नस्योत्पत्त्यभ्युपगमे चावस्थितपांकजावच्छिन्नानवच्छिन्ननीलद्वयाभ्युपगमप्रसंगः / / न च तत्रानन्यगत्याऽवस्थितनीलनाशानन्तरमेव पाकजव्यापकनीलोत्पत्त्यभ्युपगमान्नानुपपत्तिः कार्यसहभावेन नीलाभावाभावादेवावच्छिन्ननीलोत्पत्तिवारणात्, अत एव. नीलपीतश्वेताद्यारब्धे श्वेताद्यवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशपूर्वमेव तत्तदवच्छिन्ननानानीलोत्पत्तिः, अत एव च नीलमात्रारब्धे पाकेन क्वचिद्रक्तरूपोत्पत्तौ प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरभ्युपगम्यत इति चेत्, न, विजातीयतेजः संयोगत्वेनैव नीलनाशकत्वाद् व्यापकनीलजनकस्यावस्थितनीलनाशकत्वे स्वजन्यनीलस्यापि तन्नाश्यतया क्षणिकतापत्तेः न च नीलजनकतावच्छेदकजातिव्याप्यजात्यवच्छिमस्यावच्छिन्ननीलनाशकत्वाददोषो, नीलपीतारब्धे नीलावच्छेदेन पीतजनकेनाप्यवच्छिन्ननीलनाशात्, पीतजनकसंयोगाधनाश्यावच्छिन्ननीलनाशत्वावच्छिन्ने उक्तहेतुत्वकल्पने च महागौरवात् / किं च नीलमात्रारब्धे पाकेन रक्तोत्पत्तौ प्राक्तननीलनाशपूर्वमवच्छिन्न-नीलोत्पत्यभ्युपगमेऽवयवावयविनोर्युगपदेव नीलनाशात् केनानन्तरमवच्छिन्ननीलोत्पत्तिः ? पाकस्य रक्तमात्रजनने नीलध्वंस एव व्यापारात, अवच्छिन्ननीलजननेऽपि तव्यापारोपगमें च नीलरक्तजनकतावच्छेदकयोः सांकर्य, तत्र नीलपीतजनकावयवनिष्ठपाकद्वयस्वीकारे च कपालिकादिपरमाण्वन्तावयवावच्छेदेन पीतजनकपाकेऽनन्तनीलध्वंसनीलोत्पत्यादिवैयग्रथादवयविनीलोत्पत्तिद्रापास्तैव / किं च पीतपीतेतररूपध्वंससाधारणधर्मविशेषावच्छिन्ने विलक्षणपाकस्य समानावच्छेदकत्वप्रत्यासत्या हेतुत्वाद्विनष्टाविनष्टैकनीलाद्यापत्तिर्दुवारा / * * चित्ररूपविचारः विशिष्टद्रव्यपरिणामवादे तु नानुपपत्तिरवच्छिन्ननीलद्वयेऽपि व्यापकैकनील*एष चित्ररूपविचारो नयोपदेशग्रन्थगतचित्ररूपविचारेण शब्दतोऽर्थतश्च संवदति [नयो. पृ, 57] तत्रैव उपाध्यायः “यथा च सर्वस्य वस्तुनश्चित्रत्व तथोक्तमस्माभिरात्मरव्यातौ विस्तारभिया नेह प्रतन्यते।” अस्यां पंक्तौ आत्मख्यातिग्रन्थस्य नामोल्लेखः कृतः /