________________ आत्मख्यातिः पक्वत्वव्यवहारात्तदुभयसंयोगज एकत्र विकृतिलक्षणो विशेषः स्वीकर्त्तव्य इति सोऽपि परमाणावभ्युपगन्तव्यः स्यात्, न च तत्र जलजन्यविलक्षणवहिनैव पाकः स्वीक्रियत इति वाच्यं भाजनजन्यविलक्षणवहिप्रवेशादापरमाण्वन्तनाशप्रक्रिययोत्पन्नेन विलक्षणजलेनैव तत्स्वीकारसंभवात् / अनुभवविरुद्धा च पाकस्थले आपरमाण्वन्तभंगप्रक्रियेति विलक्षणतेज:संयोगस्य जन्यतावच्छेदकं घटादिनिष्ठ वैशिष्टयमेव कल्पनीयम्, एव च प्रत्यभिज्ञादयोऽपि निराबाधा विशिष्टोत्पादस्याविशिष्टस्थित्यविरोधित्वात् / तच्च वैशिष्टयं यथा दर्शनं प्रतिनियतरूपादिनिरूपित प्रतिनियतावच्छेदकावच्छिन्नं च स्वीकार्यम् / न चैवं निरूपकादिभेदेन भेदप्रसगो भेदेऽप्यभेदांशेनानुगतजन्यतासंभवात् / न च तथापि. घटादिभेदेन पाकहेतुताभेदाद गौरवम् / एकेनैव वह्निना पक्वानां नानाविधरसवत्त्वादिदर्शनेन रसरूपादिविशेषे द्रव्यविशेषस्य हेतुत्वकल्पनापेक्षया तत्तत्तेजः क्रियाजन्यतावच्छेदकसंयोगनिष्ठजात्या विशिष्टघटत्वाधवच्छिन्न एव हेतुत्वे लाघवात् / अस्तु वा विशिष्टद्रव्यत्वावच्छिन्ने विजातीयतेजःसंयोगस्य सामान्यतो हेतुतैव, व्यक्तिस्थानीयापत्तिसत्त्वे तु कल्प्यतां विशेषहेतुताऽपि, सामान्यविशेषभावेन हेतुताकृतगौरवस्यानेकान्तदोषानावहत्वात् / अवश्यं च घटनिष्ठ पाकजन्यतावच्छेदकं वैशिष्टयं स्वीकर्त्तव्यम्, नहि रूपविशेषाद्याधानार्थमापाके कुभं निदधति कुंभकाराः, किन्तु जलधारणाद्यसमर्थाऽऽमताविरोधिवैशिष्टयाद्याधानार्थमिति प्रतिपत्तव्यम् / उक्तानभ्युपगमे नैयायिकनये चित्ररूपस्वीकारपक्षे चित्ररूपे विजातीयतेजःसंयोगस्य हेतुत्वकल्पने गौरवमेव, तत्रावयवगतनानारूपोत्पत्त्यनन्तरमवयविनि चित्ररूपस्वीकारस्य नियुक्तिकत्वात्, अवयवावयविनोर्युगपदेव पाकाभ्युपगमात् / अनयैव हि युक्त्या पाकावयवनीलहेतुत्वतज्जन्यतावच्छेदकजात्यकल्पने लाघवादवयवगतनीलाभावादेनीलहेतुत्वात् पृथिवीत्वसिद्धिरिति पदार्थमालायां भट्टाचार्य निरस्तं नीलाभावादेर्नीलाद्यवच्छिन्ने विरोधित्वाभावादवयवावयविनोयुगपदेव पाकानीलायुत्पत्तेः, अपाकजनीलादौ विरोधित्वं जन्यपृथिवीत्वेन च हेतुत्वमित्यादिकल्पने महागौरवादिति / अत एव व्याप्यवृत्तिरूपपक्षेऽपि सर्वनीलघटे पाकादवयवपीतरक्तोत्पत्तिक्रमेण तदुत्पत्तिरसंबद्धा / ___ वस्तुतः पाकस्यावयविविशिष्टपरिणामहेतुत्वानभ्युपगमे पीतनीलघटे पीतमात्र नाशकपाकेन व्यापकनीलजननानुपपत्तिरवस्थितनीलनाशकाभावेन तत्सत्त्वे घटे पाकज