________________ आत्मख्यातिः परपज्जवेहिं असरिस-गमेहिं णियमेण णिच्चमविणच्छि / सरिसेहि वि वंजणओ, अस्थि ण पुण अत्थपज्जाए॥[ ] परयर्यायैर्वर्तमानपर्यायव्यतिरिक्तभूतभविष्यत्पर्यायैर्विसदृशगमैर्विजातीयज्ञानग्रायैर्नियमेन निश्चयेन नित्यमपि नास्ति तरपि सत्त्वेऽवस्थासंकरप्रसक्तेः, सदृशैरेकज्ञानविषयैस्तु व्यंजनत आद्यनयत्रयविषयव्यंजनपर्यायमाश्रित्य सत्त्वद्रव्यत्वपृथिवीत्वादिसदादिपदप्रतिपाद्यसामान्यविशेषात्मकैरस्ति, न पुनरर्थपर्यायैरन्योन्यव्यावृत्तस्वलक्षणग्राहकर्जुसूत्रादिसंमतैः, सप्तम्येकवचनं : तृतीयाबहुवचनार्थपरम् / प्रत्युत्पन्नपर्यायेण भावस्यास्तित्वनियमेऽप्येकान्तवादापत्तिरित्यत आह पच्चुप्पणमि वि पज्जयंमि भयणागइं पडइ / दव्वं जं एगगुणाई या अणंतकप्पा गुणविसेसा // [ प्रत्युत्पन्ने वर्तमानेऽपि पर्याये भजनागर्ति भेदाभेदप्रकारं पतत्यासादयति द्रव्यं, यद् यस्मादेकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गुणविशेषाः / कल्पशब्दः प्रकारवाची, तेषां मध्ये केनचिदेव गुणविशेषेण युक्तं तदिति / कृष्णं हि द्रव्यं द्रव्यान्तरेण तुल्यमधिकमूनं वा भवेप्रकारान्तराभावात्, आये सर्वतुल्यत्वे तदेकतापत्तिः, उत्तरयोः संख्येयादिभागगुणवृद्धिहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यंभाविनी, तथा च प्रतिनियतहानिवृद्धियुक्तकृष्णादिपर्यायेण सत्त्वं नान्येनेति / इत्थं च नोलत्वाद्यवान्तरजातीनामनन्तत्वात्तरतमशब्दमात्रेण तदनुगमस्य कर्तुमशक्यत्वात, तत्तदवान्तरजातीयनीलेतरपीतेतरत्वादिनाऽनन्तकार्यकारणभावापत्तिः, विलक्षणविलक्षणचित्रत्वावच्छिन्ने तत्तदवान्तरजातीयनीलोभयत्वादिना हेतुत्वे चाधिकमेव गौरवम् / एतेन चित्रप्रत्यक्षजनकतावच्छेदकमपि चक्षुः संयोगनिष्ठं वैजात्यं स्वीकर्तव्यमित्यपि निरस्तं, विलक्षणचक्षुः संयोगसत्त्वेऽपि सौसादृश्येनावयवनीलद्वयादिगतवैजात्याग्रहेऽवयविनि चित्राप्रत्यक्षादिति द्रष्टव्यम् / अव्याप्यवृत्तिरूपपक्षे ऽप्यवयवगतोत्कृष्टापकृष्टनीलाभ्यामवयविनि तयोरवच्छिन्नयोः सामान्यसामग्रोवशादर्थादनवच्छिन्ननीलस्यापत्तिप्रसंगः, अवयविनीलतरत्वाद्यवच्छिन्न एवावयवनोलतरत्वादिना हेतुत्वे नीलत्वावच्छिन्नस्याकस्मिकत्वप्रसंगः, किमाकस्मिकत्वमिति चेत् , तद्धर्मावच्छिन्नार्थितया प्रवृत्तिविरहः एतत्कारणसत्त्वे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च / प्रतोयते च तत्र नीलसामान्यमनवच्छिन्नामवच्छिन्नाश्च तद्विशेषाः, केवलशुक्लेऽपि स्वल्पबह्ववयवावच्छेदेनेन्द्रियसन्निकर्षेऽणुमहत्वोपेतशुक्लविशेषास्तदनुगतं शुक्लसामान्यं च प्रतीयत इत्येकानेकवर्णविशिष्टद्रव्यपरिणामोपगम विना न निस्तारः / एतेनाव्याप्यवृत्तिनीलादिकल्पे तादृग्नोलादिप्रत्यक्षं प्रति द्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं प्रत्यव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं प्रति वा चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसम्बवाधारतासन्निकर्षों निरूपकतया विषयनिष्ठो हेतुः संयोगादिप्रत्यक्षस्थले कदम एवेति नाधिक मा. 9